________________
२४३
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी * दिज्ञानेच्छाविशिष्टान्यत्वरूपमनाहार्यत्वं न प्रतिवध्यतावच्छेदककोटौ निवेशनोयम् , किन्वाहाय्यज्ञानोत्पत्त्यर्थ विशेष्यतानिष्ठं यत्स्वविषयतावच्छेदकत्वं तदवच्छेदकतावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकवतयादिज्ञानेच्छाविरहस्य या स्वाव्यवहितप्राक्क्षणावच्छिन्नाधिकरणता तद्विशिष्ट. धम्मितावच्छेदकताया एव प्रतिवध्यतावच्छेदकसम्बन्धत्वमुपेयते,
* चन्द्रकला 0 वच्छिन्नवहन्यभाववनिष्ठावच्छेदकतानिरूपितवन्यभावनिष्ठावच्छेदकत्वसम्बन्धेन ताहशेच्छाया वहन्यभावे वर्तमानतया तेन सम्बन्धेन तदभावस्य घटाभावादी सत्वेन तादृशेच्छाव्यवहितप्राकक्षणावच्छिन्नताशाभावाधिकरणताविशिष्टधर्मितावच्छेदकतासम्बन्धेन वन्यभावनिश्चयस्य घटाभावे सत्त्वान्न तत्र तेन सम्बन्धेन वहनिप्रकारकज्ञानोत्पादःकथमपि सम्भवतीति समाधत्ते यत इत्यादि।
किन्वाहार्येति । विरोधिज्ञानदशायामित्यादिः । स्वविषयतेति । स्वमिच्छा तन्निरूपिता या विषयता तदवच्छेदकत्वमित्यर्थः । स्वाऽव्यवहितेति इच्छाव्यवहितार्थकम् ।
निर्वह्निनिष्ठविशेष्यताकवलज्ञानं जायतामित्याकारकेच्छाव्यवहितोत्तरं स्वसामग्रीसमावेशादाहायवह्निज्ञानोत्पादस्यावश्यकतया तदानीं घटाभाववान् वन्यभाववानिति ज्ञानोत्पत्तिरेव न सम्भवतीत्यतः स्वाऽव्यवहितप्राक्क्षणेति । स्वपूर्वप्रहरकालीनताहशघन्यभावनिश्चयस्य वह निज्ञानाऽप्रतिबन्धकतया तदानीं तत्सत्त्वे तादृशवन्यादिसमूहालम्बनज्ञानोत्पादस्येष्टत्वात् स्वाऽव्यवहितपर्यन्तानुसरणमिति ध्येयम् ।
उपेयत इति। प्रतिबन्धकतावच्छेदकसम्बन्धत्वमपि तस्यैवेत्यवधेयम् ।
ननु तादृशेच्छाविरहस्य स्वाव्यवहितप्राकक्षणावच्छिन्नाधिकरणताविशिष्टधर्मितावच्छेदकत्वसम्बन्धस्य प्रतिबध्यतावच्छेदकत्वसम्बन्धत्वोपगमेऽपि यादृशस्थलविशेषे प्रथममेघ निर्वहनिनिष्ठविशेष्यताकवनिज्ञानं जायतामितीच्छा ततः क्षणमात्र कुतश्चित्प्रतिबन्धकादिवशात् निर्वहनिवनिमानित्याकारकाहार्यज्ञानस्य नोत्पादः अपितु तादृशेच्छाद्वितीयपणे घटाभाववान् वन्यभाववानिति ज्ञानोत्पत्तिस्तदनन्तरं निवनिर्वनिमान् घटाभाववांश्च बनिमानितिज्ञानोत्पादापत्तिदुवारा स्यात् ।
निरुक्तेच्छाभावस्य तादृशेच्छाव्यवहितप्राक्क्षणावच्छिन्नाधिकरणताया घटाभावे विरहेण तद्विशिष्टधर्मितावच्छेदकताया अपि तत्र विरहात् तादृशविशिष्टधर्मिताघच्छेदकतासम्बन्धेन घटाभावादौ वह्नयभावनिश्चयस्याऽसत्त्वात् तादृशकिञ्चिदंशे
"Aho Shrutgyanam"