SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४४ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * गादाधरी ताशेच्छाविरहस्य प्रतिवन्धकविशेषणस्वमेव वा विशेषणताविशेषधर्मितावच्छेदकतासम्बन्धघटितसामानाधिकरण्यसम्बन्धेनोपगन्तव्यम् , उक्त. स्थले च घटाभावादी तादृशेच्छाविरहस्य सत्त्वान्नोक्तापत्तिरधिकमन्यत्रा. नुसन्धेयमिति वदन्ति । * चन्द्रकला * आहार्यात्मकघटाभावावच्छिन्नविशेष्यकवनिप्रकारकज्ञानोत्पत्तौ बाधकामावादित्यत:कल्पान्तरमाह ताशेच्छेति । स्वविषयतानिरूपितविशेष्यत्वनिष्ठावच्छेदकतानिरूपितावच्छेदकतानिरूपितावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकेच्छामावस्येत्यर्थः । प्रतिबन्धकेति तदभावादिनिश्चयविशेषणत्वमेवेत्यर्थः । एक्कारात् तादृशाधिकरणताविशिष्टधर्मितावच्छेदकतायाः प्रतिबध्यतावच्छेदकसंसर्गत्वव्यवच्छेदः। तथा च धर्मितावच्छेदकत्वसम्बन्धेन वयादिप्रकारकबुद्धित्वावच्छिन्नं प्रति स्वनिरूपितविषयतानिरूपितविशेष्यत्वनिष्ठावच्छेदकतानिरूपितनिष्ठत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपितावच्छेदकत्वसम्बन्धावच्छिन्नप्रतियोगिताकेच्छाभावविशिष्टवहन्याद्यभावनिश्चयस्य धर्मितावच्छेदकतासम्बन्धेन प्रतिबन्धकत्वं कल्पनीयम्, ताशाभाववैशिष्टयं वहन्याधभावनिश्चये च स्वरूपसम्बन्धेन यत् स्वाधिकरणं तन्निरूपितधर्मितावच्छेदकत्वसम्बन्धावच्छिन्नवृत्तित्वसम्बन्धेन तादृशवृत्तित्वस्यैव सामानाधिकरण्यसम्बन्धरूपस्वमित्याशयः । विशेषणतेति । स्वरूपधर्मितावच्छेदकत्वघटितस्वाधिकरणवृत्तित्त्वरूपसामानाधिकरण्यसम्बन्धेनोपगन्तव्यमित्यर्थः । नोक्तापत्तिरिति । तथाच निर्वनिविशेष्यकवह निज्ञानं जायतामित्याकारकेच्छायाः पूर्व परतो वा यदि घटाभाववान् वन्यभाववानिति निश्चयो जायते तदापि तादृशनिश्चयसत्त्वदशायां निर्वनिर्वहनिमान् घटाभाववांश्च वह निमानित्याकारकांशिकाहार्यात्मकसमूहालम्बनस्यापि नापत्तिः, निरुक्तच्छायाः ताहशसम्बन्धेन वन्यभाव एव सत्त्वेन तादृश सम्बन्धेन तदभावस्य स्वरूपसम्बन्धेन घटाभावादी धर्मितावच्छेदकतासम्बन्धेन वन्यभावनिश्चयस्य च तत्र वर्तमानतया सामानाधिकरण्यसम्बन्धेन तादृशेच्छाभावविशिष्टवन्यभावनिश्चयस्य धर्मितावच्छेदकतासम्बन्धेन घटाभावादी सत्त्वात् घटाभावादौ वहनिज्ञानप्रतिबन्धकसद्भावस्यावश्यकतया न तत्र कथमपि वनिशानापत्तिः सम्भवतीति भावः । अन्यत्र - प्रतिबन्धकतावादादिग्रन्थे । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगिता "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy