________________
२४५
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
* चिन्तामणि: * ज्ञायमानं सदनुमितिप्रतिबन्धकं यत् तत्त्वं वा ।
* दीधितिः * तादृशपक्षे ताशसाध्यवैशिष्टयस्य तादृशसाध्यनिरूपितव्याप्तिविशिष्टतादशहेतुवैशिष्टयस्य चावगाहिनो ज्ञानस्य यद्विषयकं ज्ञानं विरोधिविषयकं तत्त्वम् ,
* गादाधरी ॐ निळह्निः पर्वतो वह्निमानित्यादिस्थलीयदोषसाधारण्याय प्रकारान्तरेण लक्षणं वर्णयतां केषाश्चिन्मतमाह ताशपक्ष इति । पक्षतावच्छेदकविशिष्ठपक्ष इत्यर्थः। तादृशसाध्येति । साध्यतावच्छेदकविशिष्टसाध्येत्यर्थः। तादृशहत्विति ! हेतुतावच्छेदकविशिष्टहेत्वित्यर्थः, ज्ञानस्य विरोधिविषयकं यद्विषयकंज्ञानमिति योजना । ज्ञानम्-ज्ञानसामान्यम् , तेन घटादिविषयकस्य यस्य कस्यचित् समूहालम्बनज्ञानस्य तादृशज्ञानविरोधिबाधादिविषयकत्वेऽपि नातिप्रसङ्गः।
चन्द्रकला नवच्छेदकल्वे वृत्तिताघटकसम्बन्धत्वाभावे च नोक्तरीत्या प्रतिबध्यप्रतिबन्धकभावकल्पनमसम्भवीत्याशयेन वदन्तीत्युक्तमितिध्येयम् । अधिकमन्यत्रानुसन्धेयमित्यास्तां विस्तरः ।
निर्वतिरिति । निर्वहनिः पर्वतो वह निमानित्यादिस्थलीयदोषादौ हृदो वह निमान् इत्यादिस्थलीयदोषादौ च वर्तमानत्वसम्पादनायेत्यर्थः । लक्षणम् = मूलोक्तद्वितीयलक्षणम् । पक्षे साध्यवैशिष्ट्यावगाहि-साध्यव्याप्यहेतुवैशिष्ट्यावगाहिज्ञानस्य विरोधिविषयकं यद्विषयकज्ञानसामान्यं तत्त्वमित्यत्र सामान्यपदव्यावृतिमाह तेनेति । सामान्यपदोपादानेनेत्यर्थः ।
तथा च सामान्यपदानुपादाने हृदो वनिमानित्यादौ घटादाबतिव्याप्तिः वहन्यभाववान् हृदो घटश्चेत्याकारकसमूहालम्बनघटादिविषयकयत्किञ्चि जज्ञानस्यापि हृदे वहन्यादिवैशिष्ट्यावगाहिज्ञानस्य विरोधिविषयकत्वात् यत्पदेन घटादेरप्युपादानसम्भवादिति भावः ।
तादृशज्ञानेति प्रकृतपक्षे प्रकृतसाध्यादिवैशिष्ट्यावगाहिज्ञानेत्यर्थकम् । नातिप्रसंग इति घटादावित्यादिः ।
ननु सामान्यपदोपादानेऽपि कथं घटादौ नातिव्याप्तिरित्यत आह
"Aho Shrutgyanam"