________________
२३३
चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी षयिताशालिनिश्चयोत्तरानुमितित्वव्यापक उभयाभावस्तत्त्वमिति समुदितार्थः । निश्चयत्वं च विशेषणविशेष्यतावच्छेदकभावानापन्नविरोधिकोटिद्वयप्रकारकैकधर्मिविशेष्यकज्ञानान्यज्ञानत्वम् । कोटिद्वये विशेषणविशे.
8 चन्द्रकला भासत्वमिति समुदितलक्षणार्थः ।
भवति हि ह्रदो वह्निमानित्यादौ वह्नयभावविशिष्टह्रदादिरूपवाधादी लक्षणसमन्वयः, बाधादिरूपतदभावनिश्चयस्य कार्यकालवृत्तितयाऽपि तत्प्रकारकवुद्धिप्रतिबन्धकतया हृदो वहयभाववान् हृदो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकसमूहालम्बनज्ञानानुत्पत्त्या वह्नयभावविशिष्टह्रदत्वावच्छिन्ननिरूपितविषयिताया हृदधर्मिकवहयादिप्रकारकनिश्चयाऽवृतित्वेन तस्या विरोधिविषयितात्मकतया तच्छालिनिश्चयाव्यवहितोत्तरघटाद्यनुमितित्वव्यापकत्वस्य हृदादिधर्मिकवह्नयादिप्रकारकत्वघटितोभयाभाबे सत्त्वात्।
निश्चयत्वस्याहार्यज्ञानसाधारण्ये निर्वह्निः पर्वतो वह्निमानित्यादौ दोघे लक्षणसमन्वयो न सम्भवतीत्यत आह निश्चयत्वळचेति । तादृशेत्यादिः । विशेषणेत । विशेषणत्व-विशेष्यतावच्छेदकत्वशून्यं यत् विरोधिकोटिद्वयं तत्प्रकारकैकधर्मिकं यज्जानं तदन्यज्ञानत्वं निश्चयत्वमित्यर्थः । एतेन संशयान्यज्ञानत्वमेव तादृशनिश्चयत्वमिति फलितम् ।
ननु कोटिद्वये विशेषणत्व-विशेष्यतावच्छेदकत्वशून्यत्वविशेषणमुपेक्ष्य विरोधिकोटिद्वयप्रकारकैकधर्मिकज्ञानान्यज्ञानत्वमात्रमेव निश्चयत्वं लाघवात् वक्तव्यमित्यत आह कोटिद्वय इति ।
* कलाविलासः * तथाच तादृशोभयाभावप्रतियोगितावच्छेदकविशेष्यताविशिष्टप्रकारतावत्वं विरोधिविषयित्वम्, वैशिष्ठ्यञ्च स्वावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्व-स्वावच्छेदकावच्छिन्नविशेष्यतानिरूपितप्रकारतावच्छेदकधर्मवत्वोभयसम्बन्धेन । धर्मवरवञ्च स्वावच्छिन्नरव-स्वावच्छिमव्याप्यतवावच्छिन्नत्वान्यतरसम्बन्धेनेति वदन्ति ।
निश्चयत्वञ्चति । प्रकारताविशिष्टप्रकारसाशालिज्ञानभिन्नज्ञानत्वं निश्चयत्वम्, वैशिष्ठ्यं स्वनिरूपकज्ञानीयस्व-स्वावच्छेदकधर्मावच्छिन्नविरोधितावच्छेदकधर्मावच्छिन्नत्व-स्वनिरूपितविशेष्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नविशेष्यतानिरूपितस्वैतत्रितयसम्बन्धेनेतिभावः ।
"Aho Shrutgyanam"