________________
२३४ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम्
* गादाधरी ध्यतावच्छेदकभावानापन्नत्वनिवेशात् निर्वह्निः पर्वतो वह्निमानित्यादौ पक्षतावच्छेदकविशिष्टे साध्यादिवैशिष्ट्यग्रहस्य एकत्र विरोधिद्वयप्रकारकत्वनियमेऽपि न ताशवैशिष्ट्यावगाहिनिश्चयाऽप्रसिद्धिः।।
यदीयविषयता तादृशनिश्चयाऽवृत्तिस्तत्त्वमित्येतावति कृते हृदो व. हिव्याप्यधूमवानित्यादी हृदादिनिष्ठवह्नयभावादिमत्त्वेऽतिव्याप्तिः, वह्नथादिव्याप्यवत्तानिश्चयस्यापि वयादिनिश्चयवत्कायसहभावेन वयभावादिप्रहविरोधित्वाद्वयभावादिमत्त्वविषयतायास्तादृशनिश्चयावृत्तित्वादिति न शेषवैयर्थ्यमिति ।
* चन्द्रकला * तथाच कोटिद्वये विशेषणत्व-विशेष्यतावच्छेदकत्वशून्यत्वविशेषणपरित्यागे निर्वहिपर्वतो वह्निमान् धूमादित्यादौ वहिमपर्वतरूपायाऽसिद्धावव्याप्तिः, निर्वहिपर्वतो वहिमानित्याकारकस्य पक्षे साध्यादिवैशिष्ट्यावगाहिज्ञानस्यापि विरोधिवह्नयभाववह्निप्रकारकज्ञानस्वरूपतया तदन्यत्वस्य तत्र विरहेण पक्षे साध्यादिवैशिष्ट्यावगाहिनिश्चयस्यैवाऽप्रसिद्धरित्याह निर्वह्निरिति । __ न तादृशेति । निर्वहिपर्वतो वह्निमानितिशानस्य वह्वयमावनिष्ठविशेष्यतावच्छेदकताकत्वेन वह्निनिष्ठविशेषणताकत्वेन च तादृशविशेष्यतावच्छेदकत्वादिशून्यं यत् श्रयं वह्निमान्नवेखाकारकं कोटिद्वयावगाहिसंशयात्मकं ज्ञानं तदन्यत्वस्व निर्वहिपर्वतो वह्निमानित्यादिक्षाने सत्वेन तस्य तादृशनिश्वत्रत्वोपपत्तिरिति भावः ।
नन्वेवं यद्रूपावच्छिन्ननिरूपिता विषयिता पक्षे साध्य-साध्यव्याप्यहेतुवैशिष्ट्यावगाहिताहशनिश्चयनिरूपितवृत्तित्वाभाववती तद्रूपवत्वमित्यस्यैव निर्दोषत्वसम्भवे तादृशनिश्चयावृत्तिविषयिताशालिनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकताहशोमयाभावपर्यन्तनिवेशनं निरर्थकमित्याह यदीयेति ।
न शेषवैयर्थ्यमिति । तथाच यथोक्तोभयाभावपर्यन्ताऽनिवेशे हृदो वहिव्याप्यधूमवानित्यादौ वड्यभावविशिष्टहृदादापतिव्याप्तिः, तदभावनिश्चयवत् तदभावव्याप्यप्रकारकनिश्चवस्यापि कार्यकालवृत्तितया तत्प्रकारकबुद्धिप्रतिबन्धकतया हृदो वह्नयमाववान् वहिव्याप्यधूमवानित्याकारकस्य पक्षे साध्यवैशिष्ट्याधगाहिसमूहालम्बनज्ञानस्योत्पादाऽसम्भवात् वहिव्याप्यप्रकारकज्ञानस्य वह्नयभावबुद्धिप्रतिबन्धकत्वात् वहयभाववद्हृदत्वावच्छिन्नविषयितायाः तादृशनिश्चयावृत्तित्वेन यद्रपपदेन तादृशहदत्वस्यैवोपादानसम्भवात् ।
"Aho Shrutgyanam"