Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 239
________________ २२३ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् * गादाधरी * अथैतादृशोभयाभाववत्वघटितलक्षणकरणेऽपि केवलनिहित्वादिपक्षतावच्छेदककवह्नथादिसाध्यकस्थलीयनिवह्निनिष्ठवह्नयभावादिरूपबाधादिरूपदोषऽव्याप्तिस्तादृशबाधादिरूपदोषज्ञानस्याप्रतिबन्धकतया तदीयविषयतायाः प्रतिबन्धकतानवच्छेदकतया तथाविधोभयाभवाप्रयोजकत्वात् , तस्य दोषत्वानुपगमे तत्र हेतोदुष्टत्वव्यवहारानुपपत्तो, इष्टापत्तौ तु निवह्निः पवतो वह्निमानित्यादावपि तत्सम्भवेन एतादृशप्रयासवैफल्यात्। न च तत्र अभाववान् वह्निमानित्यनाहाय्यज्ञानस्य प्रसिद्धथा तत्प्रतिबन्धकीभूताभाववान् निव्वह्रिरित्यादिज्ञानविषय एव दोष इति वाच्यम् , * चन्द्रकला . अथैतादृशेति । विशिष्टान्तराऽघटितत्वघटितैतादृशार्थकम् । केवलेति । वह्नयभाववन्मात्रपक्षकवयादिसाध्यकस्थलीये वढ्यभावविशिष्टवयभाववद्रूपबाधादिदोषेऽव्याप्तिरित्यर्थः। अादिना सत्प्रतिपक्षपरिग्रहः। तदीयेति बाधनिश्चयीयार्थकम् । तस्य = बाधादेः। तारशहेतौ- वह्नयभाववत्पक्षकातिसाध्यकस्थलीयधूमादिहेतौ। दुष्टत्वेति । निर्वह्रौ वह्निसाधने धूमो दुष्टहतिव्यवहारानुपपरित्यर्थः। ननु तादृशव्यवहारस्तु नेष्यत एवेत्यत आह इष्टापचौ चेति । तथाच निर्वह्निः पर्वतो वह्निमान् धूमादित्यादावपि हेतौ दुष्टत्वव्यवहारस्यावश्यमनभ्युपगम्यमानतया अत्र वदन्तीत्यादिना गुरुतरलक्षणानुसरणं निरर्थकमिति भावः । ___ ननु निर्वह्निनह्निमानित्यादौ वह्नयभावविशिष्ट वह्नयभाववतो न बाधदोषत्वमपितु वह्नयभावविशिष्टाभाववत एव तथात्वं वक्तव्यम् , ताशबाधनिश्चयोत्तरजातघटाद्यनुमितिनिष्ठाया निर्वह्निविशेष्यकवह्निप्रकारकत्वव्यापकस्याऽभाववद्विशेष्यकवह्निप्रकारकत्वस्याभावाधिकरणतायाः तादृशबाधनिश्चयप्रतिबध्यतावच्छेदकस्य अभाववद्विशेध्यकवह्निप्रकारकत्वस्याभावाधिकरणतात्मकतया तस्या अभाववन्निष्ठवह्नयभावविषयिताप्रयोज्यत्वेन तादृशानुमितिनिष्ठाया व्याप्योभूतस्य निर्वह्निविशेष्यकवहिंप्रकारकत्वस्य भावाधिकरणताया अपि वलयभावविशिष्टाभाववद्रूपबाधविषयिताप्रयोज्यत्वस्यावश्यकत्वादिति तटस्थः शंकते नचेति । वाच्यमितिपरेणान्वयः । तत्र = निर्व हियह्निमानित्यादिस्थले । विषय एवेति । वह्नयभावविशिष्टाभाववत एवेत्यर्थः । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308