Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 238
________________ १९९ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * गादाधरी * भिन्नतया पूर्ववर्त्तिनिष्ठप्रतिबन्धकतावच्छेदकधर्म्मस्यैव तदुत्तरोत्पन्ननिष्ठप्रतिबध्यतावच्छेदकधम्र्माभावाधिकर णताप्रयोजकत्वेन बाधादिनिश्चयानन्तरोत्पन्नानुमितिनिष्ठ साध्यादिमत्त्वावगाहित्वाभावाधिकर णतायां प्रतिपक्षान्यादृशबाधादिविषयताया अप्रयोजकत्वेन सामञ्जस्यात् । * चन्द्रकला * स इदमत्रावधेयम् । यथोक्तविशिष्टान्तराऽघटितत्वविवक्षणे विरोधिविषयिताप्रयुक्तत्वदलव्यावृत्तिर्न संगच्छते, निर्वह्निः पर्वतो वह्निमानित्यत्र घटादावतिव्याप्तिवारणायैव विरोधिविषयिताप्रयुक्तत्वदलस्य निवेशिततया घटादिविषयिताप्रयोज्योभयाभावप्रयोजकाभावाधिकरणत्वाऽप्रसिद्धया स्वपदेन घटादेरुपादातुमशक्यत्वात् । प्रतियोगिकोटौ स्वत्वमन्तर्भाव्य स्वावच्छिन्न विषयिताप्रयोज्यविशिष्टान्तरतावच्छेदकरूपावछिन्नविषयताप्रयेज्योभयाभावप्रयोजकाभावाधिकरणताकं यत् यत् स्वं तत्तदवछिन्नविषयकत्वाभावकूटवत्प्रतीतिविषयतावच्छेदकयद्रूपावच्छिन्न विषयकनिश्चयाव्य वहितोत्तरानुमितिसामान्ये विरोधिविषयिताप्रयुक्तनिरुक्तोभयाभावस्तद्रूपवत्त्वं लक्षणार्थो वक्तव्यः, स्वं लक्ष्यतानवच्छेदकत्वेनाभिमतप्रमेयत्वविशिष्टव्यभिचारत्वादिकम् एवञ्च घटत्वादेस्तादृशयद्रूपपदेनोपादानसम्भवात् तत्रातिव्याप्तिवारणार्थमेव विरोधिविषयिताप्रयुक्तत्वदलमिति । " अतः यथाविवक्षितयथोक्त लक्षणादरे निर्वह्निः पर्वतो वहिमान् धूमादित्यादौ वह्निमत्पर्वतरूपाश्रयासिद्धि निश्चयाव्यवहितोत्तरोत्पन्नघटाद्यनुमितिनिष्ठाया निर्वह्निपर्वतविशे व्यकवह्निप्रकारकत्वव्यापकस्य "Aho Shrutgyanam" पर्वतविशेष्यकवह्नयभावप्रकारकत्वस्याऽभावाधिकरणतायाः तादृशाश्रयासिद्धिविषयिताप्रयोज्यत्वेन व्याप्यीभूतस्य तादृशोनुमितिनिष्ठाया निर्वह्निपर्वतविशेष्यकवह्निप्रकारकत्वाभावाधि करणताया अपि तादृशाश्रयासिद्धिविषयिताप्रयोज्यत्वस्यावश्यकतया वह्निमत्पर्वतरूपाश्रयाऽसिद्धौ लक्षणसमन्वयसम्भवेऽपि निर्वह्निर्वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टवह्नय भाववद्रूपबाधे निरुक्तलक्षणस्याऽव्याप्तिर्दुवरा स्यात् । तादृशवाघनिश्चयस्य कुत्राऽपि बुद्धावप्रतिबन्धकतया तन्निष्ठविषयिताप्रयोज्यत्वस्योभयाभावे तदधिकरणतायां वा विरहात् निर्वह्निविशेष्यकर्वाह्नप्रकारकत्वस्य चाहार्य ज्ञानमात्रनिष्ठतया कस्याऽपि प्रतिबध्यतानवच्छेदकत्वेन तदभावाधिकरणताया निरुक्त बाघविषयित्वाऽप्रयोज्यत्वात् प्रतिबध्यतावच्छेदकधर्माभावं प्रत्येव प्रतिबन्धकतावच्छेदकविषयितायाः प्रयोजकत्वाभ्युपगमादित्याशंकते

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308