________________
१९९
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी *
भिन्नतया पूर्ववर्त्तिनिष्ठप्रतिबन्धकतावच्छेदकधर्म्मस्यैव तदुत्तरोत्पन्ननिष्ठप्रतिबध्यतावच्छेदकधम्र्माभावाधिकर णताप्रयोजकत्वेन बाधादिनिश्चयानन्तरोत्पन्नानुमितिनिष्ठ साध्यादिमत्त्वावगाहित्वाभावाधिकर णतायां प्रतिपक्षान्यादृशबाधादिविषयताया अप्रयोजकत्वेन सामञ्जस्यात् ।
* चन्द्रकला *
स
इदमत्रावधेयम् । यथोक्तविशिष्टान्तराऽघटितत्वविवक्षणे विरोधिविषयिताप्रयुक्तत्वदलव्यावृत्तिर्न संगच्छते, निर्वह्निः पर्वतो वह्निमानित्यत्र घटादावतिव्याप्तिवारणायैव विरोधिविषयिताप्रयुक्तत्वदलस्य निवेशिततया घटादिविषयिताप्रयोज्योभयाभावप्रयोजकाभावाधिकरणत्वाऽप्रसिद्धया स्वपदेन घटादेरुपादातुमशक्यत्वात् । प्रतियोगिकोटौ स्वत्वमन्तर्भाव्य स्वावच्छिन्न विषयिताप्रयोज्यविशिष्टान्तरतावच्छेदकरूपावछिन्नविषयताप्रयेज्योभयाभावप्रयोजकाभावाधिकरणताकं यत् यत् स्वं तत्तदवछिन्नविषयकत्वाभावकूटवत्प्रतीतिविषयतावच्छेदकयद्रूपावच्छिन्न विषयकनिश्चयाव्य वहितोत्तरानुमितिसामान्ये विरोधिविषयिताप्रयुक्तनिरुक्तोभयाभावस्तद्रूपवत्त्वं लक्षणार्थो वक्तव्यः, स्वं लक्ष्यतानवच्छेदकत्वेनाभिमतप्रमेयत्वविशिष्टव्यभिचारत्वादिकम् एवञ्च घटत्वादेस्तादृशयद्रूपपदेनोपादानसम्भवात् तत्रातिव्याप्तिवारणार्थमेव विरोधिविषयिताप्रयुक्तत्वदलमिति ।
"
अतः
यथाविवक्षितयथोक्त लक्षणादरे निर्वह्निः पर्वतो वहिमान् धूमादित्यादौ वह्निमत्पर्वतरूपाश्रयासिद्धि निश्चयाव्यवहितोत्तरोत्पन्नघटाद्यनुमितिनिष्ठाया निर्वह्निपर्वतविशे व्यकवह्निप्रकारकत्वव्यापकस्य
"Aho Shrutgyanam"
पर्वतविशेष्यकवह्नयभावप्रकारकत्वस्याऽभावाधिकरणतायाः तादृशाश्रयासिद्धिविषयिताप्रयोज्यत्वेन व्याप्यीभूतस्य तादृशोनुमितिनिष्ठाया निर्वह्निपर्वतविशेष्यकवह्निप्रकारकत्वाभावाधि करणताया अपि तादृशाश्रयासिद्धिविषयिताप्रयोज्यत्वस्यावश्यकतया वह्निमत्पर्वतरूपाश्रयाऽसिद्धौ लक्षणसमन्वयसम्भवेऽपि निर्वह्निर्वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टवह्नय भाववद्रूपबाधे निरुक्तलक्षणस्याऽव्याप्तिर्दुवरा स्यात् । तादृशवाघनिश्चयस्य कुत्राऽपि बुद्धावप्रतिबन्धकतया तन्निष्ठविषयिताप्रयोज्यत्वस्योभयाभावे तदधिकरणतायां वा विरहात् निर्वह्निविशेष्यकर्वाह्नप्रकारकत्वस्य चाहार्य ज्ञानमात्रनिष्ठतया कस्याऽपि प्रतिबध्यतानवच्छेदकत्वेन तदभावाधिकरणताया निरुक्त बाघविषयित्वाऽप्रयोज्यत्वात् प्रतिबध्यतावच्छेदकधर्माभावं प्रत्येव प्रतिबन्धकतावच्छेदकविषयितायाः प्रयोजकत्वाभ्युपगमादित्याशंकते