________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २२१
* गादाधरी - वाधिकरणतापर्यन्तनिवेशः । तथासति दर्शितोभयाभावाधिकरणताया उक्तरूपावच्छिन्नव्यभिचारादिविषयित्वप्रयोज्यत्वनियमेऽपि तादृशोभयाभावप्रयोजकसाध्यादिमत्तावगाहित्त्वाभावाधिकरणताया उक्तरूपावच्छिन्नव्यभिचारादिविषयत्वाप्रयोज्यत्वेन ताशबाधादेः संग्रहः। __बाधादिविषयिताप्रयोज्यस्य साध्यादिमत्तावगाहिताविरहस्य सत्प्रतिपक्षादिरूपविशिष्टान्तरविषयताप्रयोज्यत्वनियमादसम्भवः स्यादित्युभयाभावप्रयोजकाभावे विशिष्टान्तरविषयत्वाप्रयोज्यत्वमनिवेश्य तादृशाभावाधिकरणतायां तन्निवेशः। तथा सति अधिकरणताया अधिकरणभेदेन
* चन्द्रकला * तन्निवेशे तु न ताशबाधादेरसंग्रह इत्याह तथासतीति । उभयाभावप्रयोजकाभावाधिकरणतायां तादृशप्रयोज्यत्वाऽप्रयोज्यत्वयोनिवेशे सतीत्यर्थः । दर्शितोभयेति । पते साध्यवैशिष्टयावगाहित्व-साध्यव्याप्यहेतु शिष्टयावगाहित्वोमयाभावाधिकरणताया इत्यर्थः । तादृशेति । निरुक्तोभयाभाव प्रयोजकपक्षधर्मिसाध्यप्रकारकत्वाभावाधिकरणताया इत्यर्थः । उक्त. रूपेति । यत्किञ्चिद्विशिष्टान्तरविषयितात्वव्यापकव्यभिचारविषयितात्वावच्छिन्नाऽप्रयोज्यत्वेनेत्यर्थः।
तादृशबाधादेः संग्रहः = व्यभिचारघटितबाधादेः संग्रहः। निरुक्तोभयाभावस्य पक्षधर्मिकसाध्यप्रकारकत्व-साध्यव्याप्यहेतुप्रकारकत्वोभयाभावात्मकतया तदधिकरणतायां विशिष्टान्तरव्यभिचारविषयितात्वेन व्यभिचारविषयिताप्रयोज्यत्वस्य सत्त्वेऽपि धूमाभाववद्धमव्यभिचारिवह्निमद्रूपबाधनिश्चयाव्यवहितोत्तरजातायां घटाद्यनुमितौ तादृशोभयाभावप्रयोजकपक्षधर्मिकधूमरूपसाध्यप्रकारकत्वाभावाधिकरणतायां यत्किञ्चिद्विशिष्टान्तरव्यभिचारविषयितात्वव्यापकव्यभिचारविषयितात्वावच्छिन्नप्रयोज्यताविरहेण स्वपदेन निरुक्तबाधत्वस्यैव धत्त शक्यतया व्यभिचारघटितबाधादावव्याप्तिवारणार्थमेवोभयाभावाधिकरणतायां तादृशप्रयोज्यस्वाऽप्रयोज्यत्वमनिवेश्य तादृशोभयाभावप्रयोजकाभावाधिकरणतायामेव तन्निवेश इत्याशयः ।,
नच स्वविषयिताप्रयोज्योभयाभावाधिकरणताकत्वेऽसति तादृशविशिष्टान्तरविषयित्वाऽप्रयोज्योमयाभावप्रयोजकाभावाधिकरणताकत्वविवक्षणे न कोऽपि दोष इति वाच्यम् , एकत्र तादृशप्रयोज्यत्वाऽप्रयोज्यत्वविवक्षणे अनुगमे लाघवसम्भवादितिध्येयमधिकमन्यत्रानुसन्वेयम् ।
"Aho Shrutgyanam"