________________
२५०
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादावरी
करणताप्रयोजकत्वात्तत्रैकैकविधबाधादिज्ञानानन्तरं जातज्ञाने या तत्तद्वाधादिविषयिताप्रयोज्या पक्षे साध्यवैशिष्ट्या वगाहित्वाभावाधिकरणता तस्या विशिष्टान्तरविषयित्वाप्रयोज्यतया बाधादौ लक्षणसमन्वयः ।
व्यभिचारघटितबाधादिविषयिताप्रयोज्याया दीधितिकारोक्तोभयाभावाधिकरणताया व्याप्त्याद्यवगाहिताविरद्दप्रयोज्यत्वेन यत् किश्विद्विशिष्टान्तरविषयितात्वव्यापकरूपावच्छिन्नबाधादिविषयतानन्तः पातिव्यभिचारा दिविषयिताप्रयोज्यत्वनियमात्तत् संग्रहाय तादृशोभयाभावप्रयोजकाभा
* चन्द्रकला
तादृशबाधनिश्चयप्रतिबध्यतावच्छेदकस्य हृदविशेष्यकवह्निप्रकारकत्वस्य अभावाधिकरणतायाः प्रयोजकत्वादित्यर्थः ।
एकैकविधेति । तथाच हृदो वह्निमानित्यादा वह्नयभावविशिष्टहृदादिरूपैकविधबाधादौ नाव्याप्तिः, ताहशैकविधबाघमात्रविषयक निश्चयाव्यवहितोत्तरानुमित्यादौ वर्त्तमानाया हृदधर्मिकवह्नयादिप्रकारकत्वाभावाधिकरणतायाः तादृशबाघविषयितामात्रप्रयोज्यतया
विशिष्टान्तरसत्प्रतिपक्षविषयिताप्रयोज्यत्वविरहात्, तादृशै कविधवाधादिमात्रविषयकनिश्चयमादायैव सर्वत्र लक्षणसमन्वयसम्भवादिति भावः । तस्याः = तत्तद्वाधादिविषयिताप्रयोज्यायास्तादृशावगाहित्वाभावाधिकरणतायाः । बाधादाविति । आदिना सत्प्रतिपक्षादिपरिग्रहः । लक्षणसमन्वय इति । उक्त विवक्षयेत्यादिः ।
ननु स्वविषयिताप्रयोज्यत्वस्य विशिष्टान्तरविषयित्वाऽप्रयोज्यत्वस्य च तादृशोभयाभावाधिकारणतायां निवेशेनैवोपपपत्तौ तादृशोभयाभावप्रयोजकाभावाधिकरणतायां तन्निवेशनमनर्थकमित्यत आह व्यभिचारेति । धूमाभाववद्धूमव्यभिचारिवह्निमद्रूपबाधादिविषयिताप्रयोज्याया इत्यर्थः ।
दीधितीति । प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्या वगाहित्व - प्रकृतसाध्यव्याप्यप्रकृतहेतुवैशिष्ट्या वगाहित्वोभयाभावाधिकरणताया इत्यर्थः । व्याप्त्यवगाहितेति । निरुक्तबाधस्य व्यभिचारघटिततया व्यभिचारनिश्चय प्रतिबध्यतावच्छेदकतायाश्च व्याप्त्यवगाहितायां वर्त्तमानतया तादृशाधिकरणताया व्यात्यवगाहित्वाभावप्रयोज्यत्वस्यावश्यकत्वेनेत्यर्थः । बाघविषयितान्तः पातिव्यभिचारविषयितात्वरूप यत् किञ्चिद्विशिष्टान्तरविषयितात्वव्यापकव्यभिचारविषयितात्वावच्छिन्नप्रयोज्यत्वं सुतरामेव तादृशोभयाभावाधिकरणतायामित्याह यत् किञ्चिदिति । तत्संग्रहाय = व्यभिचारघटितवाधादिसंप्रदाय ।
"Aho Shrutgyanam"