________________
२२३
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी * अथैतादृशोभयाभाववत्वघटितलक्षणकरणेऽपि केवलनिहित्वादिपक्षतावच्छेदककवह्नथादिसाध्यकस्थलीयनिवह्निनिष्ठवह्नयभावादिरूपबाधादिरूपदोषऽव्याप्तिस्तादृशबाधादिरूपदोषज्ञानस्याप्रतिबन्धकतया तदीयविषयतायाः प्रतिबन्धकतानवच्छेदकतया तथाविधोभयाभवाप्रयोजकत्वात् , तस्य दोषत्वानुपगमे तत्र हेतोदुष्टत्वव्यवहारानुपपत्तो, इष्टापत्तौ तु निवह्निः पवतो वह्निमानित्यादावपि तत्सम्भवेन एतादृशप्रयासवैफल्यात्।
न च तत्र अभाववान् वह्निमानित्यनाहाय्यज्ञानस्य प्रसिद्धथा तत्प्रतिबन्धकीभूताभाववान् निव्वह्रिरित्यादिज्ञानविषय एव दोष इति वाच्यम् ,
* चन्द्रकला . अथैतादृशेति । विशिष्टान्तराऽघटितत्वघटितैतादृशार्थकम् ।
केवलेति । वह्नयभाववन्मात्रपक्षकवयादिसाध्यकस्थलीये वढ्यभावविशिष्टवयभाववद्रूपबाधादिदोषेऽव्याप्तिरित्यर्थः। अादिना सत्प्रतिपक्षपरिग्रहः। तदीयेति बाधनिश्चयीयार्थकम् । तस्य = बाधादेः। तारशहेतौ- वह्नयभाववत्पक्षकातिसाध्यकस्थलीयधूमादिहेतौ।
दुष्टत्वेति । निर्वह्रौ वह्निसाधने धूमो दुष्टहतिव्यवहारानुपपरित्यर्थः। ननु तादृशव्यवहारस्तु नेष्यत एवेत्यत आह इष्टापचौ चेति । तथाच निर्वह्निः पर्वतो वह्निमान् धूमादित्यादावपि हेतौ दुष्टत्वव्यवहारस्यावश्यमनभ्युपगम्यमानतया अत्र वदन्तीत्यादिना गुरुतरलक्षणानुसरणं निरर्थकमिति भावः । ___ ननु निर्वह्निनह्निमानित्यादौ वह्नयभावविशिष्ट वह्नयभाववतो न बाधदोषत्वमपितु वह्नयभावविशिष्टाभाववत एव तथात्वं वक्तव्यम् , ताशबाधनिश्चयोत्तरजातघटाद्यनुमितिनिष्ठाया निर्वह्निविशेष्यकवह्निप्रकारकत्वव्यापकस्याऽभाववद्विशेष्यकवह्निप्रकारकत्वस्याभावाधिकरणतायाः तादृशबाधनिश्चयप्रतिबध्यतावच्छेदकस्य अभाववद्विशेध्यकवह्निप्रकारकत्वस्याभावाधिकरणतात्मकतया तस्या अभाववन्निष्ठवह्नयभावविषयिताप्रयोज्यत्वेन तादृशानुमितिनिष्ठाया व्याप्योभूतस्य निर्वह्निविशेष्यकवहिंप्रकारकत्वस्य भावाधिकरणताया अपि वलयभावविशिष्टाभाववद्रूपबाधविषयिताप्रयोज्यत्वस्यावश्यकत्वादिति तटस्थः शंकते नचेति । वाच्यमितिपरेणान्वयः ।
तत्र = निर्व हियह्निमानित्यादिस्थले । विषय एवेति । वह्नयभावविशिष्टाभाववत एवेत्यर्थः ।
"Aho Shrutgyanam"