________________
२२४
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
____ गादाधरी अभाववत्वसामानाधिकरण्येन निवह्नित्वग्रहस्य ताशवह्निमत्त्वग्रहाविरोधित्वात्, अभाववत्त्वावच्छेदेन वह्नयादिमत्ताग्रहविरोधित्वेऽपि ताहशवह्नया. दिमत्तावगाहित्वस्य वह्नयभावादिमत्त्वरूपपक्षतावच्छेदकविशिष्टे साध्यवै. शिष्टयावगाहित्वाव्यापकतया तदवच्छिन्ननिरूपितप्रतिबन्धकतावच्छेदक
® चन्द्रकला ® अभाववत्वसामानाधिकरण्येन वढयभावशिष्टाभावक्त एव दोषत्वं स्वीकरणीयम् अभाववत्वस्य पर्वतादावपि सत्त्वेन तत्र वलयभावस्य विरहात् अभाववत्त्वावच्छेदेन वह्नयभाववैशिष्टचाऽप्रसिद्धया तदवच्छेदेन वह्नयभावस्य दोषत्वाऽ. सम्भवादेवञ्चाऽभाववत्त्वसामानाधिकरण्यावगाहिवह्नयभावनिश्चयप्रतिबध्यतावच्छेदकमभाववत्त्वावच्छेदेन बयभावप्रकारकत्वमेव, तदभावं प्रत्येव तादृशबाधनिश्चयविषयितायाः प्रयोजकतया निर्वह्निविशेष्यकवह्निप्रकारकत्वाभावाधिकरणतायास्ताशवाधनिश्चयविषयित्वाऽप्रयोज्यत्वात् अभाववत्त्वावच्छेदेन वहिप्रकारकत्वस्य निर्वही वहथवगाहित्वाऽव्यापकत्वात् । ___ अभाववत्त्वसामानाधिकरण्येन वह्नयवगाहित्वस्य निर्वह्निधर्मिकवह्निप्रकारकत्वव्यापकत्वेऽपि तस्याऽभाववत्त्वसामानाधिकरण्येन वह्नयभावरूपभवदभिमतबाधनिश्चयप्रतिबध्यतानवच्छेदकतया तदभावाधिकरणताया निरुक्तवाधनिश्चयविषयिताप्रयोज्यत्वाऽसम्भवादित्य कामेनाऽपि वह्नयभावविशिष्टवह्नयभाववत एव दोषत्वस्यावश्यकतया भवति तत्राऽव्याप्तिरित्येवं समाधत्ते अभाववरवेति । शुद्धस्वरूपेणाभाववति वह्वयभावप्रकारकनिश्चयस्येत्यर्थः ।
ताशेति । अभाववत्त्वसामानाधिकरण्येन अभाववति शुद्धसंयोगेन वह्निप्रकारकत्वस्य निर्वह्निविशेष्यकवह्निप्रकारकत्वव्यापकत्वेऽपि तदभावाधिकरणताया अभाववत्त्वसामानाधिकरण्येन वह्नयभावप्रकारकनिश्चयीयविषयिताप्रयोज्यत्वविरहान्नाभाववत्त्वसामानाधिकरण्येन वह्नयभावादेदोषत्वमपि वक्त शक्यमितिभावः ।
अभाववत्त्वावच्छेदेनेति । अभाववत्त्वव्यापकवह्निप्रतियोगिकसंयोगेनाभाववान् बह्निमान् इत्याकारकग्रहप्रतिबन्धकत्वेऽपोत्यर्थः । अभाववत्त्वसामानाधिकरण्येन निर्वह्नित्वग्रहस्येति पूर्वेण सम्बन्धः । तादृशेति अभाववत्त्वावच्छेदेन वह्वयादिमत्तावगाहित्वस्येत्यर्थः। पक्षतेति । निर्वह्नित्वविशिष्टे वह्नयवगाहित्वाऽव्यापकतयेत्यर्थः । तदवच्छिन्नेति । अभाववत्त्वावच्छेदेन वह्निप्रकारकत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकाभाववत्त्वसामानाधिकरण्यावगाहिवह्नयभावनिश्चयीयविषयिताया इत्यर्थः ।
"Aho Shrutgyanam"