________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २२५
गादाधरी* विषयितायास्तथाविधोभयाभावाप्रयोजकत्वात् तद्विषयस्य दोषत्वानुपपत्तः, अभाववत्त्वावच्छेदेन निहित्वग्रहस्य भ्रमरूपतया तद्विषयविशिष्टस्याप्रसिद्धः। एवं वह्निमानिवह्निरित्यादिस्थलीयदोषे नितरामव्याप्ति
वह्निमनिष्ठवह्निमत्त्वादेरेव तत्र दोषत्वसम्भवात् , तद्विषयकस्य ज्ञानस्य कचिदपि प्रतिबन्धकत्वायोगात् । एवं यत्र निर्वह्निः पवतो वह्निमानित्यादौ पर्वतत्वादिसामानाधिकरण्येन वह्नयभावादिमत्त्वस्य पक्षतावच्छेदकघटकता तत्र पव्वतत्वसामानाधिकरण्येन वहथादिमत्वं न दोषः, विशिष्टपक्षप्रहाद्यविरोधित्वेनाश्रयासिद्ध्यादिरूपत्वानुपपत्तः, उक्तरीत्यैतल्लक्षणानाकान्लत्वाच्च ।
* चन्द्रकला छ तथाविधेति । निवह्नित्वविशिष्ट वहिवैशिष्टयावगाहित्वघटितोभयाभावाप्रयोजकत्वादित्यर्थः। व्यापकाभावप्रयोजकस्यैव व्याप्याभावप्रयोजकतया अभाववत्त्वावच्छेदेन वह्नयवगाहित्वस्य निर्वह्रौ वढयवगाहित्वाव्यापकतया पक्षे साध्यवैशिष्टयावगाहित्वघटितोभयाभावप्रयोजकत्वम् अभावत्वसामानाधिकरण्येन वयभावविषयितायां न सम्भवतीति हृदयम् ।
नन्वेवमभाववत्वावच्छेदेनैव वलयभावविशिष्टाभाववतो दोषत्वमस्त्वित्यप्त आह अभाववत्स्वेति । अभावत्वव्यापकवह्नयभावप्रतियोगिकस्वरूपेण अभाववान् वह्वयभाववानित्याकारकग्रहस्येत्यर्थः । तद्विषयेति भ्रमविषयेत्यर्थकम् । अप्रसिद्धेरिति । तथाच निर्वहिर्वह्निमानित्यत्र वह्नयभावविशिष्टवह्नयभावक्त एव दोषतया निरुक्तलक्षणस्य तत्राऽव्याप्तिदुर्वा रैवेति भावः ।
निरुक्तलक्षणे दोषान्तरमप्याह एवमिति । तथाच वह्निमान् वह्नयभाववानित्यत्र वह्निविशिष्टवह्निमद्रूपबाधेऽप्युक्तलक्षणस्याव्याप्तिः, वह्निमान् वह्रिमानित्याकारकवाधनिश्चयस्य कुत्रचिदपि ज्ञानेऽप्रतिबन्धकतया तत्प्रतिबध्यतावच्छेदकधर्मस्याप्रसिद्धत्वात् प्रतिबध्यतावच्छेदकधर्माभावं प्रत्येव प्रतिबन्धकतावच्छेदकविषयितायाः प्रयोजकत्वस्य पूर्वमुक्तत्वादित्याशयः।
दोषान्तरमप्याह एवमिति । यत्र = यादृशस्थले । पर्वतत्वादीति । शुद्धस्वरूपेण वह्नयभावादिमत्वस्येत्यर्थः । तत्र-तादृशस्थले । पर्वतत्वसामानाधिकरण्येन वढयभावादिमत्त्वरूपविशिष्टपक्षग्रहप्रतिबन्धकतावच्छेदकविषयिताकत्वविरहेणेत्यर्थः। आश्रयाऽसिद्धिरूपतानुपपत्तेरिति । विशिष्टपक्षग्रहविरोधिन एवाश्रयाऽसिद्धिरूपत्वादिति भावः ।।
उक्तरीत्या = निर्वह्निर्वह्निमानित्यादी बाधादावव्याप्तिदानरीत्या। एतल्लक्षणेति । अत्र वदन्तीत्यादिनाऽभिहितलक्षणानाक्रान्तत्वादित्यर्थः ।
१५
"Aho Shrutgyanam"