________________
अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादावरी *
पर्व्वतत्वाद्यवच्छेदेन वह्नपादिमवञ्चाप्रसिद्धम्, वह्निशून्यपव्वतादेरपि सत्त्वात् । नापि पर्व्वतत्वादिसामानाधिकरण्येन, निर्व्वह्निपर्व्वतत्वाद्यवच्छेदेन वा वह्नयभावादिमत्त्वरूपबाधादिदोषः । तथज्ञानस्य पक्षतावच्छेदकविशिष्टे साध्यवैशिष्टयावगाहित्वव्यापकविषयताघटितधर्मावच्छिन्नाप्रतिबन्धकतया तत्र लक्षणगमनायोगात् । नापि पर्व्वतत्वावच्छेदेन वह्न्यभावादिमत्वम्, अप्रसिद्धत्वादिति न कोऽपि दोषः स्यात् ।
२२६
* चन्द्रकला *
ननु ताशस्थले पर्वतत्वावच्छेदेन वह्निमत्त्वस्यैवाश्रयासिद्धित्वं वक्तव्यम्, तस्य च पर्वतत्वसामानाधिकरण्येन वह्नद्यभावरूपपचतावच्छेदकविशिष्टपक्षग्रह विरोधित्वेनाश्रयासिद्धिरूपतया निरुक्तलक्षणाक्रान्तत्वस्यापि सम्भवादित्यत आह पर्वत्वाद्येति । पर्वतत्वव्यापक वह्निप्रतियोगिकसंयोगेन वह्निमत्त्वञ्चेत्यर्थः ।
अप्रसिद्धमिति । पर्वतत्वस्य वह्नयभाववति पर्वतेऽपि वत्तमानतया तत्र वह्निमत्त्वज्ञानस्य भ्रमरूपतया तद्विषयविशिष्टस्याऽप्रसिद्धत्वान्न तद्विषयस्वापि दोषत्वं सम्भवतीतिहृदयम् । पर्यंतत्वावच्छेदेन वह्नयादिमत्त्वस्याप्रसिद्धौ हेतुमाह वहिशून्येति । वह्नयभाववदर्थकम् |
तु पर्वतत्वसामानाधिकरण्येन वह्नयभावादेः पचतावच्छेदकतास्थले आभयासिद्धैर्दोषत्वाऽसम्भवेऽपि तादृशपर्वते वह्निसाध्यकस्थले पर्वतत्वसामानाधिकरण्येन वह्नयभावादिमत्पर्वतादेः वह्नद्यभावविशिष्टपर्वतत्वावच्छेदेन वहयभावविशिष्टवह्निशून्यपर्वतादेरेव वा तत्र बाघत्वं स्वीकरणीयमितिदोषसम्भवादेव हेतौ दुष्टत्वव्यवहारोऽपि निर्विवाद एवेत्यत आह नापीति ।
निषेधे हेतुमाह तज्जानस्येति । तादृशबाधादिनिश्चयस्येत्यर्थः । पक्षतेति । भावविशिष्ट पर्वते वह्निवैशिष्टयावगाहित्वव्यापकविषयिताघटितं यत् पर्वतत्वसामानाधिकरण्येन वयवगाहिबुद्धित्वं तदवच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकताशून्यत्वेनेत्यर्थः ।
लक्षणगमनायोगादिति । व्यापकाभावप्रयोजकस्यैव व्याप्याभावप्रयोजकतया निर्वपिर्वते वह्निवैशिष्टयावगाहित्वव्यापकस्य पर्वतत्वसामानाधिकरण्येन पर्वतधर्मिकवह्निप्रकारकत्वस्य पर्वतत्व सामानाधिकरण्येन वह्नयभावादिमत्पर्वतादिरूपताहराबाधादिनिश्चयप्रतिबध्यतानवच्छेदकत्वेन बाधविषयितायास्तादृशव्यापकाभावाऽप्रयोजकत्वेन व्याप्यीभूतस्य पक्षे साध्यवैशिष्टथावगाहित्वादेरभावं प्रत्यप्यप्रयोजकत्वाचादृशस्भले न कस्यापि दोषत्वं सम्भवतीति तात्पर्यम् ।
ननूक्तस्थले पर्वतत्वावच्छेदेन वह्नयभाववत्त्वस्यैव बाघत्वमस्त्वित्यत श्राह नापीति ।
"Aho Shrutgyanam"