________________
चन्द्रकला-कलाविलासाख्यटीकास्योपेतम् २२७
-गादाधरो * यत्त प्रयुक्तत्वं व्यापकत्वम् , यद्विषयकनिश्चयनिष्ठविरोधिविषयिताया उभयाभावव्याप्यत्वञ्च स्वाभयताहशनिश्चयाव्यवहितोत्तरानुमितित्वसम्बन्धेन, तादृशसम्बन्धलाभायैव तदुत्तरमनुमितावित्युक्तम् । एवञ्च विरोधिविषयकयद्विषयकनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकस्तादृशोभयाभावस्तत्त्वम् इति पय॑वसितम् । एवञ्च निर्वह्निवहिमानित्यादिस्थलीयबाधादिस्थलीयबाधादिविषयितायां स्वरूपसम्बन्धरूपोभयाभावप्रयोजक
* चन्द्रकला - निषेधे हेतुमाहाऽप्रसिद्धत्वादिति । वह्निविशिष्टपर्वतादेरपि सत्त्वादिति हृदयम् । तत्र-पर्वतत्वसामानाधिकरण्येन वह्नयभावपक्षतावच्छेदककवह्निसाध्यकस्थले। न कोऽपि दोषः स्यादिति । तथाचोक्तलक्षणाभिधानमप्यनुचितमिति भावः। निर्वहनिर्वहनिमानित्यादौ बाधादावव्यातिवारणाय प्रकारान्तरेण विरोषिविषयिताप्रयुक्तत्वं व्याचक्षाणानां मतं दूषयितुमुपन्यस्यति यत्त्विति। तादृशोभयाभावे यद्रपावच्छिन्नविषयकनिश्चयनिष्ठविरोधिविषयिताव्यापकत्वं यदि विरोधिविषयिता-- प्रयुक्तत्वं तदा तादृशविषयितायां तादृशोभयाभावव्याप्यत्वस्यावश्यकत्वादाहोभयेति । तादृशोभयवदवृत्तित्वरूपव्याप्यत्वघटकवृत्तित्वञ्चेत्यर्थः । स्वाश्रयेति । स्वं विरोधिविषयिता ! ___ तथा च हृदो वनिमानित्यादौ हृदविशेष्यकवनिप्रकारकत्व-व निव्याप्यधूमप्रकारकत्वोभयवति हृदो व निमान् वहनिव्याप्यधूमवांश्चेत्याकारकज्ञाने वन्यभाववद्हृदविषयितात्मकविरोधिविषयितायाः स्वाश्रयवहन्यभावविशिष्टहृदनिश्चयाव्यवहितोत्तरानुमितित्वसम्बन्धेनावतमानतया तस्यास्ताहशोभयाभावव्याप्यत्वं निर्विवादमिति भावः।
एवञ्चति । विरोधिविषयिताप्रयुक्तत्वस्य तादृशविषयिताव्यापकत्वार्थकत्वे चेत्यर्थः । विरोधीति । विरोधिविषयकयद्पावच्छिन्नविषयकनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकः प्रकृतपक्षे प्रकृतसाध्यवैशिष्टयावगाहित्व-प्रकृतसाध्यव्याप्यप्रकृतहेतुवैशिष्टधावगाहित्वोभयाभावस्तद्र पवत्वं हेत्वाभासत्वमिति पर्यवसितमित्यर्थः ।
निवंह निर्वह निमानित्यादौ वन्यभावविशिष्टवन्यभाववद्र पबाधे पर्यवसितलक्षणसंगतिमाह एवञ्चति । निरुक्तस्य लक्षणार्थतायाः पर्यवसितत्वे चेत्यर्थः । निर्वह्निरिति । वन्यभाववनिष्ठवन्यभावादिरूपबाधादेविषयितायामित्यर्थः । स्वरूपेति । अनुभषसाक्षिकेत्यादिः।
"Aho Shrutgyanam"