________________
२२८ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
गादाधरी स्वासम्भवेऽपि उभयाभावप्रतियोगितावच्छेदककोटौ यद्रूपावच्छिन्नविशे. ध्यकयद्रूपावच्छिन्नप्रकारकत्वं निविष्टं तद्रूपावच्छिन्नविशेष्यकतघ्पावच्छिनाभाव-तव्याप्यान्यतरप्रकारकत्वस्यैव विरोधिविषयत्वार्थकतया तत्र लक्षणं सुसमन्वयमेव ताशप्रयोजकत्वस्यानिवेशात् ।
नचैवं तत्र वस्तुमात्रेऽतिव्याप्तिदुबारैव, तादृशोभयाभावस्य विरोधिविषयकसमूहालम्बनरूपघटादिविषयकनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकताया अवतत्वादिति वाच्यम् , विरोधिविषयितानतिरिक्तवृत्तिर्य
.चन्द्रकला सुसमन्वयमेवेति । निर्वह्निर्वह्निमानित्यादिस्थलीयवहथभावविशिष्टवलयभाववद्रूपबाधादिविषयिताया अपि निर्वह्नित्वविशिष्ट वह्निवैशिष्टयावगाहित्वघटितोभयाभावप्रतियोगितावच्छेदककोटिप्रविष्टत्वस्य तादृशावगाहित्वनिष्ठतया तादृशवह्नयभावावच्छिन्ने वह्नयभावविषयितात्वेन विरोधिविषयितात्मकतया तादृशबाघविषयिताशालिनिश्चयाव्यवहितोत्तरघटाद्यनुमितित्वव्यापकत्वस्य यथोक्तोभयाभावे सत्वात् वह्नयभावविशिष्टवनयभाववद्रूपबाधादी लक्षणं सुसमन्वेयमित्यर्थः । तादृशेति स्वरूपसम्बन्धरूपार्थकम् ।
नन्वेवं निर्वह्निर्वह्निमानित्यादौ घटादावुदासीनेऽतिव्याप्तिः वह यन्यभावविशिष्टवलयभाववद्विषयकघटादिविषयकसमूहालम्बननिश्चयाव्यवहितोत्तरानुमितित्वव्यापकत्वस्य निर्वह्निविशेष्यकवह्निप्रकारकत्वघटितोभयाभावे वर्तमानत्वादित्याशंकते नचैवमिति । एवम् = निरुक्तरीत्या विरोधिविषयिताप्रयुक्तत्वविवक्षणे । __ अक्षतत्वादिति । तादृशसमूहालम्बननिश्चयाव्यवहितोत्तरं वहथभाववान् वहनिमानित्याकारकाहार्यानुमितेरप्रसिद्धतया तादृशघटाद्यनुमितौ च यथोक्तोमयाभाववत्त्वसत्त्वे बाधकामावादित्याशयः ।
उत्तरयति विरोधिविषयितेति । स्वव्यापकयथाविवक्षितविरोधिविषयिताकयद्पावच्छिन्नविषयिताशालिनिश्चयस्येत्यर्थः। स्वं लक्ष्यतावच्छेदकत्वेनामिमतमद्रपावच्छिन्नविषयित्वम् । विरोधिविषयित्वाभाववदवृत्ति यद्पावच्छिन्नविषयित्वमिति तु नार्थः, विशेष्यवृत्तिपदार्थस्य विशिष्टानुयोगिकाभावानभ्युपगमादसम्भवापत्ति. रित्यस्य पूर्व स्वयमुक्तत्वादितिध्येयम् ।
एवञ्च निर्वह्निर्वहिमानित्यत्र न घटादावतिव्याप्तिः घटत्वावच्छिन्नविषयिताया वढयभावविशिष्टवलयभाववदविषयकसमूहालम्बनानात्मकेऽपि घटशाने वर्तमान
"Aho Shrutgyanam"