________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी
द्विषयिता तच्छालिनिश्चयस्य निश्चयान्तेन विवक्षणाद् घटादिविषयितायास्तत्र निरुक्तविरोधिविषयितानतिरिक्तवृत्तित्वविरहात् ।
२२६.
नचैवं विरोधिविषयितानतिरिक्तवृत्तिर्यदीयविषयिता तत्त्वमित्येतावतैव सामञ्जस्ये शेषवैयर्थ्यमिति वाच्यम्,
8 चन्द्रकला
तथा तत्र तादृशवह्नयभावादिविषयितात्मक विरोधिविषयिताविरहेण घटविषयिताव्यापकत्वस्य विरोधिविषयितायामसत्त्वात् स्वपदेन घटविषयिताया उपादानाऽसम्भवादित्याह घटादिविषयिताया इति । तत्र = निर्वह्नि वह्निमानित्यत्र |
ननु यद्रूपावच्छिन्न विषयिताव्यापकं तादृशविरोधिविषयित्वं तद्रूपवत्त्वं हेत्वाभासत्वमित्युक्तावेव घटादावतिव्याप्तिवारणसम्भवे तादृशयद्रूपावच्छिन्नविषयिताशालिनिश्वयाव्यवहितोत्तरानुमितित्वव्यापकतादृशोभयाभावपर्यन्तनिवेशनं निरर्थकमित्याशंकते नचैवमिति । एवम् = विरोधिविषयितानतिरिक्तवृत्तित्वस्य यद्रूपावछिन्नविषयितायां विवक्षणे ।
शेषेति तादृशविषयिताशालिनिश्चयाव्यवहितोत्तरानुमितित्वव्यापको भयाभावपर्यन्तस्य वैयर्थ्यमित्यर्थः । यद्यपि व्यापकताघटकाभावभेदेन वैयर्थ्यं न सम्भवतीत्युच्यते तथापि श्रनुचितगौरवग्रस्तं लक्षणं न युक्तमित्याशयेन वैयर्थ्याभिधानमिति ध्येयम् ।
यद्रूपावच्छिन्न विषयिताव्यापक विरोधिविषयिताकत्वार्थकविरोधिविषयितानतिरिक्तवृत्तित्वविशिष्टा यद्रूपावच्छिन्नविषयिता भवति तद्रूपवत्त्वमेतावन्मात्रस्य लक्षणार्यत्वे पर्वतत्वसामानाधिकरण्येन वह्निसाध्यकधूमरूपसद्धेतौ पर्वतत्वसामानाधिकरण्येन पर्वतनिष्ठवहयभावादेर्दोषत्वापत्तिः स्यात् ।
निरुक्तवढ्यभावविषयितायास्तादृशोभयाभावप्रतियोगितावच्छेदककोटिप्रविष्टावगाहिताकस्य पर्वतत्वावच्छिन्ने वह्नयादेरभावविषयितात्मकतया विरोधिविषयितापदेन धत्त" शक्यतथा तस्याश्च पर्वतत्वसामानाधिकरण्येन पर्वतादिनिष्ठवह्नयभावत्वाद्यवच्छिन्नविषषिताव्यापकत्वस्यानपायात् द्र प पपदेन तादृशवढ्यभावत्वादेरुपादानसम्भवात् ।
विरोधिविषवितानतिरिक्त वृत्तियद्रूपावच्छिन्नविषयिताशालिनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकोभयाभावपर्यन्तनिवेशे पर्वतनिष्ठवह्नयभावादावतिव्याप्तिः,
तु न तत्र पर्वतत्व सामानाधिकरण्येन विरोधिविषयितानतिरिक्तवृत्तिनिरुक्तवह्रय
"Aho Shrutgyanam"