________________
२३० अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
गादाधरी यत्र पर्वतत्वोदिसामानाधिकरण्येन वह्नयादेः साध्यता तत्र पर्वतत्वादि. सामानाधिकरण्येन वह्नयभावादिमत्त्व विषयिताया निरुक्तविरोधिविषयिवानतिरिक्तवृत्तितया तत्रातिव्याप्तिवारकतया शेषसार्थक्यात् । तदुपादाने तादृशवयभावादिमत्त्वविषयकनिश्चयानन्तरं पर्वतत्वादिसामानाधिकरएयेन वह्नथाद्यनुमित्युत्पत्त्या तादृशानुमितौ तथाविधोभयसत्त्वेनातिव्याप्त्यनवकाशादिति, तत्तुच्छम् ,
निर्वहिः पर्वतो वह्निमानित्यादौ यत्र पर्वतत्वादिसामानाधिकरएयेन वह्नयभावादेः पचतावच्छेदकता तत्र पर्वतत्वसामानाधिकरण्येन वहयादिमत्त्वस्य विशिष्टपक्षमहाविरोधित्वादाश्रयासिद्ध्यनात्मकहेत्वाभा.
चन्द्रकला भावत्वावच्छिन्नविषयिताशालिनिश्चयाव्यवहितोत्तरानुमितित्वस्य पर्वतत्वसामानाधिकरण्येन पर्वतो वह्निमान् वहिव्याप्यधूमवांश्चेत्याकारकानुमितावपि सत्वेन तत्र पर्वतपर्मिकवसिप्रकारकत्वघटितोभयाभावविरहेण तादृशानुमितित्वव्यापकत्वस्य ताहशोभयाभावेऽभावादित्येवं समाधत्ते यत्रेत्यादि । यादृशस्थले इत्यर्थः। . पर्वतत्वादीति संयोगत्वमात्रावच्छिन्नसंयोगसम्बन्धेनेत्यर्थः । तत्रातीति । पर्वतत्वसामानाधिकरण्येन पर्वतनिष्ठवह्नयभावादावतिव्याप्तिवारकतयेत्यर्थः । शेषसार्थक्यात् = तादृशानुमितित्वव्यापकोभयाभावपर्यन्तस्य सार्थक्यसम्भवात् ।
शेषोपादाने तु कथं तत्र नातिव्याप्तिरित्यत श्राह तदुपादाने इति । शेषोपादाने इत्यर्थः । पर्वतत्वादीति पर्वतत्वादिसामानाधिकरण्येन वह्नयभावादिनिश्चयस्व पर्वतत्वादिसामानाधिकरण्येन वह्नयाद्यनुमितिप्रतिबन्धकत्वं न सम्भवतीति हृदयम् ।
तथाविधोभयेति पर्वतविशेष्यकवह्निप्रकारकत्वघटितोभयसत्वेनेत्यर्थः ।
निरुक्तं मतं दूषयति तत्तच्छमिति। यत्र- यादृशस्थले। पर्वतत्वेति शुद्धस्वरूपेणेत्यर्थः । विशिष्टपक्षेति । पर्वतत्वसामानाधिकरण्येन वहथभाववत्पर्वतग्रहप्रतिबन्धकतावच्छेदकविषयिताकत्वविरहेणेत्यर्थः । पर्वतत्वसामानाधिकरण्येन वह्नयादिमस्वस्याश्रयासिद्धिभिन्नत्वस्यावश्यकतवा हेत्वाभासान्तरत्वस्य चासम्भवान्न तस्य लक्ष्यत्वमपि सम्भवतीत्याह हेत्वाभासेति । पञ्चहेत्वाभासातिरिक्त हेत्वाभासत्वापत्तिभयेनेत्यर्थः। तेन हेत्वाभासान्तरवस्याप्रसिद्धावपि न क्षतिरिति ध्येयम्।
"Aho Shrutgyanam"