Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 242
________________ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम् * गादावरी * पर्व्वतत्वाद्यवच्छेदेन वह्नपादिमवञ्चाप्रसिद्धम्, वह्निशून्यपव्वतादेरपि सत्त्वात् । नापि पर्व्वतत्वादिसामानाधिकरण्येन, निर्व्वह्निपर्व्वतत्वाद्यवच्छेदेन वा वह्नयभावादिमत्त्वरूपबाधादिदोषः । तथज्ञानस्य पक्षतावच्छेदकविशिष्टे साध्यवैशिष्टयावगाहित्वव्यापकविषयताघटितधर्मावच्छिन्नाप्रतिबन्धकतया तत्र लक्षणगमनायोगात् । नापि पर्व्वतत्वावच्छेदेन वह्न्यभावादिमत्वम्, अप्रसिद्धत्वादिति न कोऽपि दोषः स्यात् । २२६ * चन्द्रकला * ननु ताशस्थले पर्वतत्वावच्छेदेन वह्निमत्त्वस्यैवाश्रयासिद्धित्वं वक्तव्यम्, तस्य च पर्वतत्वसामानाधिकरण्येन वह्नद्यभावरूपपचतावच्छेदकविशिष्टपक्षग्रह विरोधित्वेनाश्रयासिद्धिरूपतया निरुक्तलक्षणाक्रान्तत्वस्यापि सम्भवादित्यत आह पर्वत्वाद्येति । पर्वतत्वव्यापक वह्निप्रतियोगिकसंयोगेन वह्निमत्त्वञ्चेत्यर्थः । अप्रसिद्धमिति । पर्वतत्वस्य वह्नयभाववति पर्वतेऽपि वत्तमानतया तत्र वह्निमत्त्वज्ञानस्य भ्रमरूपतया तद्विषयविशिष्टस्याऽप्रसिद्धत्वान्न तद्विषयस्वापि दोषत्वं सम्भवतीतिहृदयम् । पर्यंतत्वावच्छेदेन वह्नयादिमत्त्वस्याप्रसिद्धौ हेतुमाह वहिशून्येति । वह्नयभाववदर्थकम् | तु पर्वतत्वसामानाधिकरण्येन वह्नयभावादेः पचतावच्छेदकतास्थले आभयासिद्धैर्दोषत्वाऽसम्भवेऽपि तादृशपर्वते वह्निसाध्यकस्थले पर्वतत्वसामानाधिकरण्येन वह्नयभावादिमत्पर्वतादेः वह्नद्यभावविशिष्टपर्वतत्वावच्छेदेन वहयभावविशिष्टवह्निशून्यपर्वतादेरेव वा तत्र बाघत्वं स्वीकरणीयमितिदोषसम्भवादेव हेतौ दुष्टत्वव्यवहारोऽपि निर्विवाद एवेत्यत आह नापीति । निषेधे हेतुमाह तज्जानस्येति । तादृशबाधादिनिश्चयस्येत्यर्थः । पक्षतेति । भावविशिष्ट पर्वते वह्निवैशिष्टयावगाहित्वव्यापकविषयिताघटितं यत् पर्वतत्वसामानाधिकरण्येन वयवगाहिबुद्धित्वं तदवच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकताशून्यत्वेनेत्यर्थः । लक्षणगमनायोगादिति । व्यापकाभावप्रयोजकस्यैव व्याप्याभावप्रयोजकतया निर्वपिर्वते वह्निवैशिष्टयावगाहित्वव्यापकस्य पर्वतत्वसामानाधिकरण्येन पर्वतधर्मिकवह्निप्रकारकत्वस्य पर्वतत्व सामानाधिकरण्येन वह्नयभावादिमत्पर्वतादिरूपताहराबाधादिनिश्चयप्रतिबध्यतानवच्छेदकत्वेन बाधविषयितायास्तादृशव्यापकाभावाऽप्रयोजकत्वेन व्याप्यीभूतस्य पक्षे साध्यवैशिष्टथावगाहित्वादेरभावं प्रत्यप्यप्रयोजकत्वाचादृशस्भले न कस्यापि दोषत्वं सम्भवतीति तात्पर्यम् । ननूक्तस्थले पर्वतत्वावच्छेदेन वह्नयभाववत्त्वस्यैव बाघत्वमस्त्वित्यत श्राह नापीति । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308