Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 241
________________ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २२५ गादाधरी* विषयितायास्तथाविधोभयाभावाप्रयोजकत्वात् तद्विषयस्य दोषत्वानुपपत्तः, अभाववत्त्वावच्छेदेन निहित्वग्रहस्य भ्रमरूपतया तद्विषयविशिष्टस्याप्रसिद्धः। एवं वह्निमानिवह्निरित्यादिस्थलीयदोषे नितरामव्याप्ति वह्निमनिष्ठवह्निमत्त्वादेरेव तत्र दोषत्वसम्भवात् , तद्विषयकस्य ज्ञानस्य कचिदपि प्रतिबन्धकत्वायोगात् । एवं यत्र निर्वह्निः पवतो वह्निमानित्यादौ पर्वतत्वादिसामानाधिकरण्येन वह्नयभावादिमत्त्वस्य पक्षतावच्छेदकघटकता तत्र पव्वतत्वसामानाधिकरण्येन वहथादिमत्वं न दोषः, विशिष्टपक्षप्रहाद्यविरोधित्वेनाश्रयासिद्ध्यादिरूपत्वानुपपत्तः, उक्तरीत्यैतल्लक्षणानाकान्लत्वाच्च । * चन्द्रकला छ तथाविधेति । निवह्नित्वविशिष्ट वहिवैशिष्टयावगाहित्वघटितोभयाभावाप्रयोजकत्वादित्यर्थः। व्यापकाभावप्रयोजकस्यैव व्याप्याभावप्रयोजकतया अभाववत्त्वावच्छेदेन वह्नयवगाहित्वस्य निर्वह्रौ वढयवगाहित्वाव्यापकतया पक्षे साध्यवैशिष्टयावगाहित्वघटितोभयाभावप्रयोजकत्वम् अभावत्वसामानाधिकरण्येन वयभावविषयितायां न सम्भवतीति हृदयम् । नन्वेवमभाववत्वावच्छेदेनैव वलयभावविशिष्टाभाववतो दोषत्वमस्त्वित्यप्त आह अभाववत्स्वेति । अभावत्वव्यापकवह्नयभावप्रतियोगिकस्वरूपेण अभाववान् वह्वयभाववानित्याकारकग्रहस्येत्यर्थः । तद्विषयेति भ्रमविषयेत्यर्थकम् । अप्रसिद्धेरिति । तथाच निर्वहिर्वह्निमानित्यत्र वह्नयभावविशिष्टवह्नयभावक्त एव दोषतया निरुक्तलक्षणस्य तत्राऽव्याप्तिदुर्वा रैवेति भावः । निरुक्तलक्षणे दोषान्तरमप्याह एवमिति । तथाच वह्निमान् वह्नयभाववानित्यत्र वह्निविशिष्टवह्निमद्रूपबाधेऽप्युक्तलक्षणस्याव्याप्तिः, वह्निमान् वह्रिमानित्याकारकवाधनिश्चयस्य कुत्रचिदपि ज्ञानेऽप्रतिबन्धकतया तत्प्रतिबध्यतावच्छेदकधर्मस्याप्रसिद्धत्वात् प्रतिबध्यतावच्छेदकधर्माभावं प्रत्येव प्रतिबन्धकतावच्छेदकविषयितायाः प्रयोजकत्वस्य पूर्वमुक्तत्वादित्याशयः। दोषान्तरमप्याह एवमिति । यत्र = यादृशस्थले । पर्वतत्वादीति । शुद्धस्वरूपेण वह्नयभावादिमत्वस्येत्यर्थः । तत्र-तादृशस्थले । पर्वतत्वसामानाधिकरण्येन वढयभावादिमत्त्वरूपविशिष्टपक्षग्रहप्रतिबन्धकतावच्छेदकविषयिताकत्वविरहेणेत्यर्थः। आश्रयाऽसिद्धिरूपतानुपपत्तेरिति । विशिष्टपक्षग्रहविरोधिन एवाश्रयाऽसिद्धिरूपत्वादिति भावः ।। उक्तरीत्या = निर्वह्निर्वह्निमानित्यादी बाधादावव्याप्तिदानरीत्या। एतल्लक्षणेति । अत्र वदन्तीत्यादिनाऽभिहितलक्षणानाक्रान्तत्वादित्यर्थः । १५ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308