Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 232
________________ २१६ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम् ___ * कलाविलासः * धेऽव्याप्तिवारणाय तादृशोभयाभावप्रयोजकाभावाधिकरणतायां तादृशवाधनिश्चयाव्यवहितोत्तरज्ञानवृत्तितत्तदधिकरणताभेदोऽपि निवेश्यः । नच बाधसत्प्रतिपक्षोभयविषयकसमूहालम्बननिश्चयोत्तरज्ञानवृत्त्यधिकरणतायां विशिष्टान्तरविषयिताप्रयोज्यस्व-स्वविषयिताप्रयोज्यत्वोभयसत्त्वेन बाधस्यापि स्वपदार्थतया तदघटितत्वविरहात् तत्राऽध्याप्तिरिति वाच्यम् , स्वविपयिताप्रयोज्योभयाभावप्रयोजकाभावाधिकरणतास्वव्यापकत्वविशिष्टान्तरविषयिताप्रयोज्यताकं यद् यत् स्वं तदघटितत्वस्यैव विवक्षणीयत्वात् , बाधविषयिताप्रयोज्याधिकरणतात्वव्यापकत्वस्य विशिष्टान्तरविषयिताप्रयोज्यत्वेऽसत्वात् , मेयत्वविशिष्टबाधत्वादेरेव स्वपदेनोपादेयतया कस्यापि दोपस्याऽसम्भवादित्यस्मद्गुरुचरणाः । अत्र कल्पे स्वसजातीयविशिष्टान्तराघटितत्वमित्यत्र साजात्यं स्ववृत्ति पक्षे साध्यावगाहित्वाभावाधिकरणता-हेतुधर्मिकव्याप्तयवगाहित्वाभावाधिकरणतेत्याद्यन्यतमाधिकरणतावस्वरूपम् , वृत्तित्वं अधिकरणतावत्त्वञ्च स्वप्रयोजकविषयितानिरूपकतावच्छेदकरवसम्बन्धेनेति ध्येयम् । केचित्तु निरुक्तकल्पे विशिष्टद्वयाऽघटितत्वनिवेशो नास्ति, ज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धकतास्थले विशिष्टद्वयविषयितायां प्रयोजकताद्वयमतो निरुक्तोभयाभावप्रयोजकाभावाधिकणतायां जलवद्धदरूपविशिष्टान्तरविषयिताप्रयोज्यत्वान्न वह्नयभा. ववजलवद्वृत्तिजलवद्धदादावतिव्याप्तिः । नचैवमसाधारण्येऽव्याप्तिः, हेतुमत्पक्षविपयिताया अपि तादृशविशिष्टान्तरविषयितात्वादिति वाच्यम्, विशिष्टान्तराऽघटितत्वपदेन तादृशव्यापकरूपानवच्छिन्नस्वविषयितानिष्टप्रयोजकतानिरूपितप्रयोज्यतावद्यथोक्तोभयाभावप्रयोजकाभावाधिकरणताकत्वस्य निवेशनीयत्वात् अत एव हृदस्वावच्छेदेन वह्निसाध्यकस्थले हृदत्वावच्छेदेन वह्नयभावस्य बाधत्वानुपपत्तिः, तादृशोभयाभावप्रयोजकाभावाधिकरणतायां हृदत्वसामानाधिकरण्येन वह्नयभावविशिष्टहृदरूपविशिष्टान्तरविषयिताप्रयोज्यत्वस्य सत्वादित्यपि परास्तम् , ह्रदत्वावच्छेदेन वाधविषयितानिष्ठप्रयोजकतायां निरुक्तविशिष्टान्तरविषयितात्वव्यापकरूपानवच्छिन्नस्वविरहादित्याहुस्तच्चिन्त्यम् । वस्तुतो ह्रदत्वावच्छेदेन वह्निसाध्यकस्थले हदरवावच्छेदेन वन्यभावस्याऽलक्ष्यस्वमेव । तत्र हृदत्वसामानाधिकरण्येन वह्वयभावस्यैव बाधत्वमभ्युपगन्तव्यम, तत एव बाधेन दुष्ट इतिव्यवहारस्याऽप्युपपरोः । तथाच छ विशिष्टान्तरघटितत्वशंकाऽपि? "Aho Shrutgyanam"


Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308