Book Title: Samanyanirukti Chandrakala kalavilas Tika
Author(s): Vamacharan Bhattacharya
Publisher: Sadhubela Ashram Bhadaini

View full book text
Previous | Next

Page 231
________________ २१५ चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ® गादाधरी 8 न च विशिष्टपक्षे विशिष्टसाध्यवत्ताग्रहप्रतिवन्धकतावच्छेदिकायास्ताहशबाधादिविषयतान्तःपातिव्यभिचारादिविषयिताया अपि तादृशबाधादि • चन्द्रकला . ननु व्यभिचारघटितबाधे कथं लक्षणसमन्वयः प्रतिबन्धकतावच्छेदकविषयिताप्रयोज्यताया एव प्रतिबध्यतावच्छेदकधर्माभावाधिकरणतायाः स्वीकरणीयतया धूमाभाववधूमव्यभिचारिवह्निमत्त्वावच्छिन्नरूपराधनिश्चयाव्यवहितोत्तरजायमानानुमितिनिष्ठायां उभयाभावप्रयोजकपक्षधर्मिकसाध्यप्रकारकत्वाभावाधिकरणतायां धूमाभावादिविषयिताया इव धूमव्यभिचारविशिष्टवह्निविषयितारूपबाधविषयितान्तःपातिपक्षतावच्छेदककोटिप्रविष्ट विषयिताया अपि प्रयोजकताया आवश्यकत्वात् पक्षधर्मिकसाध्यप्रकारकबुद्धिप्रतिबन्धकतावच्छेदकताया धूमव्यभिचारविशिष्टवह्निविषयितायामप्यनपायात् । तथा चोक्तमाधत्वावच्छिन्नविषयिताप्रयोज्यत्वस्येव विशिष्टान्तरतावच्छेदकधूमव्यभिचारविशिष्ट वद्वित्वावच्छिन्नविषयिताप्रयोज्यत्वस्यापि तादृशोभयाभावप्रयोजकपक्षधर्मिकसाध्यप्रकारकत्वाभावाधिकरणतायां सत्त्वेन स्वावच्छिन्नविषयिताप्रयोज्यविशिष्टान्तरतावच्छेदकरूपावच्छिन्नव्यभिचारविषयत्वाऽप्रयोज्योभयाभावप्रयोजकाभावाधिकरणताकत्वस्य तादृशबाधत्वे विरहात् स्वपदेन धूमाभावपळूमव्यभिचारिवह्निमत्त्वरूपबाधत्त्वस्योपादानाऽसम्भवादित्याशंकते नचेति । वाच्यमिति परेणान्वयः । विशिष्टेति। धूमव्यभिचारिवह्निमत्त्वावच्छिन्ने पक्षे इत्यर्थः। विशिष्टसाध्येति धूमत्वविशिष्टधूमार्थकम् । तादृशबाधादीति धूमाभाववद्धूम *कलाविलासः * अत्रवदन्तिकल्पेऽपि विशिष्टद्वयाऽघटितत्वनिवेशनमावश्यकमन्यथा विशिष्टान्तररूपे प्रकृतलक्षणाश्रयत्वनिवेशादेव जलवद्धदविषयिताया विशिष्टान्तरविषयितास्वाभावेन वह्वयभाववजलवद्वृत्तिजलवद्धदेऽतिव्याप्तिः स्यात् । नचैवं जलाभाववान् हृदो वह्निमान् जलादित्यत्र वह्विव्यापकीभूताभावप्रतियोगिजलरूपाऽसाधारण्येऽव्याप्तिः, जलवद्धदविषयिताया विशिष्टान्तरविषयितापदेन धर्तुं शक्यत्वादि. तिवाच्यम् , विशिष्टान्तरविषयिताप्रयोज्यस्वविषयिताप्रयोज्यतादृशोभयाभावप्रयोजकाभावाधिकरणताकं यद् यत् स्वं तदघटितत्वस्यैव प्रतियोगिकोटौ स्वत्वमन्तर्भाव्य निवेशनीयत्वात् , तत्रच तादृशोभयाभावप्रयोजकाभावाधिकरणतायां ताशासाधारण्यनिश्चयाव्यवहितोत्तरज्ञानवृत्तितत्तदधिकरणताभेदस्य विवक्षणीयतया असाधारपयेऽव्यातेरसम्भवात् । एवं गगनाभाववदभाववत्कालीनो घटो गगनवानित्यत्र वा. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308