________________
२१५
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
® गादाधरी 8 न च विशिष्टपक्षे विशिष्टसाध्यवत्ताग्रहप्रतिवन्धकतावच्छेदिकायास्ताहशबाधादिविषयतान्तःपातिव्यभिचारादिविषयिताया अपि तादृशबाधादि
• चन्द्रकला . ननु व्यभिचारघटितबाधे कथं लक्षणसमन्वयः प्रतिबन्धकतावच्छेदकविषयिताप्रयोज्यताया एव प्रतिबध्यतावच्छेदकधर्माभावाधिकरणतायाः स्वीकरणीयतया धूमाभाववधूमव्यभिचारिवह्निमत्त्वावच्छिन्नरूपराधनिश्चयाव्यवहितोत्तरजायमानानुमितिनिष्ठायां उभयाभावप्रयोजकपक्षधर्मिकसाध्यप्रकारकत्वाभावाधिकरणतायां धूमाभावादिविषयिताया इव धूमव्यभिचारविशिष्टवह्निविषयितारूपबाधविषयितान्तःपातिपक्षतावच्छेदककोटिप्रविष्ट विषयिताया अपि प्रयोजकताया आवश्यकत्वात् पक्षधर्मिकसाध्यप्रकारकबुद्धिप्रतिबन्धकतावच्छेदकताया धूमव्यभिचारविशिष्टवह्निविषयितायामप्यनपायात् ।
तथा चोक्तमाधत्वावच्छिन्नविषयिताप्रयोज्यत्वस्येव विशिष्टान्तरतावच्छेदकधूमव्यभिचारविशिष्ट वद्वित्वावच्छिन्नविषयिताप्रयोज्यत्वस्यापि तादृशोभयाभावप्रयोजकपक्षधर्मिकसाध्यप्रकारकत्वाभावाधिकरणतायां सत्त्वेन स्वावच्छिन्नविषयिताप्रयोज्यविशिष्टान्तरतावच्छेदकरूपावच्छिन्नव्यभिचारविषयत्वाऽप्रयोज्योभयाभावप्रयोजकाभावाधिकरणताकत्वस्य तादृशबाधत्वे विरहात् स्वपदेन धूमाभावपळूमव्यभिचारिवह्निमत्त्वरूपबाधत्त्वस्योपादानाऽसम्भवादित्याशंकते नचेति । वाच्यमिति परेणान्वयः ।
विशिष्टेति। धूमव्यभिचारिवह्निमत्त्वावच्छिन्ने पक्षे इत्यर्थः। विशिष्टसाध्येति धूमत्वविशिष्टधूमार्थकम् । तादृशबाधादीति धूमाभाववद्धूम
*कलाविलासः * अत्रवदन्तिकल्पेऽपि विशिष्टद्वयाऽघटितत्वनिवेशनमावश्यकमन्यथा विशिष्टान्तररूपे प्रकृतलक्षणाश्रयत्वनिवेशादेव जलवद्धदविषयिताया विशिष्टान्तरविषयितास्वाभावेन वह्वयभाववजलवद्वृत्तिजलवद्धदेऽतिव्याप्तिः स्यात् । नचैवं जलाभाववान् हृदो वह्निमान् जलादित्यत्र वह्विव्यापकीभूताभावप्रतियोगिजलरूपाऽसाधारण्येऽव्याप्तिः, जलवद्धदविषयिताया विशिष्टान्तरविषयितापदेन धर्तुं शक्यत्वादि. तिवाच्यम् , विशिष्टान्तरविषयिताप्रयोज्यस्वविषयिताप्रयोज्यतादृशोभयाभावप्रयोजकाभावाधिकरणताकं यद् यत् स्वं तदघटितत्वस्यैव प्रतियोगिकोटौ स्वत्वमन्तर्भाव्य निवेशनीयत्वात् , तत्रच तादृशोभयाभावप्रयोजकाभावाधिकरणतायां ताशासाधारण्यनिश्चयाव्यवहितोत्तरज्ञानवृत्तितत्तदधिकरणताभेदस्य विवक्षणीयतया असाधारपयेऽव्यातेरसम्भवात् । एवं गगनाभाववदभाववत्कालीनो घटो गगनवानित्यत्र वा.
"Aho Shrutgyanam"