________________
अनुमानगादाधय सामान्यनिरुकिप्रकरणम्
* गादाधरी *
ज्याया उक्तोभयाभावप्रयोजकव्याप्त्याद्यवगाहित्वाभाववत्तायाः शुद्धव्यभि चारादिविषयिताप्रयोज्यत्वनियमेन प्रमेयत्वविशिष्टव्यभिचारादौ न विशि
२१४
ष्टान्तरविषयित्वाप्रयोज्यस्वविषयिताप्रयोज्यनिरुक्तोभयाभावप्रयोजकाभावाधिकरणताकत्वमिति नातिप्रसङ्गः । उपदर्शितव्यभिचारादिघटितवाधादिविषयिताप्रयोज्यायाः पक्षे साध्यावगाहित्वाद्यभावाधिकरणतायास्तघटकव्यभिचारादिविषयित्वाप्रयोज्यतया तत्संग्रहः ।
* चन्द्रकला
I
उक्तोभयाभावेति । प्रकृतपक्षे प्रकृतसाध्य वैशिष्ट्या वगाहित्य-प्रकृतसाध्यव्याप्यहेतुवैशिष्ट्य वगाहित्वो भयाभावार्थकम् । शुद्धेति । विशिष्टान्तरीभूतेत्यादिः । नातिप्रसंगइति । स्वपदेन प्रमेयत्वविशिष्टव्यभिचारत्वस्योपादानाऽसम्भवादित्याशयः । तत्संग्रहः = व्यभिचारघटितबाघसंग्रहः । * कलाविलासः *
ताद्दशरूपावच्छिन्नप्रयोज्यत्वस्य पक्षे साध्यवैशिष्ट्यावगाहित्वाभावाधिकरणतायामसत्त्वात् ।
तादृशोभयाभावप्रयोजकं यत्तन्निरूपिताधिकरणतानिवेशेनैवोपपत्तौ श्रभावत्वेनाभावनिवेशनं निरर्थकमिति चेन्न, प्रमेयत्वविशिष्टव्यभिचारेऽतिव्यासवापत्तेः, मेयत्वविशिष्टव्यभिचारविषयकस्मृतिनिष्ठाया मेयस्वविशिष्ट व्य भिचारविषयित्वाधिकरणतायाः विरोधिविपयित्वाधिकरणत्वविधया तादृशोभयाभावप्रयोजकीभूतायाः संस्कारीयमेयत्वविशिष्टव्यभिचारविषयिताप्रयोज्यत्वस्य विशिष्टान्तरव्यभिचारविषयितात्वव्यापकरूपावच्छिन्नाऽप्रयोज्यत्वस्यापि केवलव्यभिचारविषयक - संस्कारात् मेयत्वविशिष्टव्यभिचारविषयकस्मृतेरनुत्पादेनैवावश्यकतया स्वपदेन मेथत्वविशिष्टव्यभिचारस्वस्य तु शक्यत्वादतोऽभावपदम् । तथाचाभावपदोपादानान्न तत्रातिव्याप्तिः । अभावत्वावच्छिन्नाधिकर णसात्वावच्छिन्नप्रयोजकताया एव विवक्षितत्वात् इति ध्येयम् ।
नच तथापि तादृशाभावनिरूपितं यत् तत्कत्वमेव निवेशनीयमधिकरणतात्वेनाधिकरणतानिवेशनमनर्थकमिति वाच्यम्, पर्वतो वह्निमान् पक्षे साध्यवैशिष्टयावगाहित्वाभावादित्यादौ मेयत्वविशिष्टवह्नयभाववद्वृत्तितादृश हेतुरूपव्यभि चारेऽतिव्याप्तचापत्तेः तादृशस्मृतिनिष्ठायां तादृशविषयितायां उभयाभावप्रयोजकाभावनिरूपितायां पूर्ववदेव संस्कारीयस्वविषयिताप्रयोज्यत्वस्य विशिष्टान्तरविषयित्वाऽप्रयोज्यत्वस्य च सश्वात् ।
श्रथ
"Aho Shrutgyanam"