________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् २१३
गादाधरी प्रमेयत्वविशिष्टव्यभिचारादिविषयिताप्रयो
ॐ चन्द्रकला लिसामान्ये विरोधिविषयिताप्रयुक्तो यो निरुक्तोमयाभावः तद्पावच्छिन्नविषयितात्वावच्छिन्नप्रयोजकतानिरूपितप्रयोज्यत्वाभाववती या तादृशोभयाभावप्रयोजकाभावाधिकरणता सा यस्य स्वस्य एवम्भूतं यत् स्वं तादृशस्ववत्त्वं विशिष्टान्तराऽघटितत्वघटितसमुदितलक्षणार्थः पर्यवसितः ।
प्रमेयत्वविशिष्टव्यभिचारत्वं नैतादृशं स्वं तदवच्छिन्नविषयिताप्रयोज्यायाः प्रकृतसाध्यव्याप्यहेतुप्रकारकत्वाभावाधिकरणतायाः तादृशस्वावच्छिन्नाऽविषयकप्रतीतिविष. यतावच्छेदकम् अथ च निरुक्तलक्षणाश्रयीभूतं यद् व्यभिचारत्वं तदवच्छिन्नविषयिताप्रयोज्यतया विशिष्टान्तरव्यभिचारविषयित्वाऽप्रयोज्यतायास्तत्र विरहात् । ___धूमव्यभिचारिवानिमान् धूमवान् वनॆरित्यादौ तु धूमाभाववभूमव्यभिचारिमत्त्वरूपव्यभिचारघटितबाधत्वमेव स्वपदेन धतुं शक्यम् , तादृशबाधत्वावच्छिन्नविषयिताप्रयोज्यायाः . उभयाभावप्रयोजकप्रकृतपक्षविशेष्यकप्रकृतसाध्यप्रकारकत्वाभावाधिकरणतायाः तादृशबाधत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् निरुक्तलक्षणाश्रयोभूतं धूमव्यभिचारिवह्नित्त्वं तदवच्छिन्न विषयित्वाप्रयोज्यताया निराबाघत्वात् प्रकृतहेतौ प्रकृतसाध्यव्याप्यत्वावगाहित्वाभावाधिकरणताया एव धूमव्यभिचारिवह्निविषयिताप्रयोज्यत्वनियमादिति न प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिनवा व्यभिचारघटितबाधेऽव्यातिरित्याह प्रमेयत्व विशिष्टेति ।
* कलाविलासः * वह्वरित्यादौ बाधादिरूपविशिष्टान्तरस्य चाऽप्रसिद्धत्वात् विशिष्टान्तरविषयित्वाs. प्रयोज्योभयाभावप्रयोजकाभावाधिकरणताकत्वेन स्वपदेन प्रमेयत्वविशिष्टव्यभिचारस्वस्यैवोपादातुं शक्यत्वात् , अतः स्वविषयिताप्रयोज्येति । पक्षे साध्यवैशिष्टयावगहिस्वाभावाधिकरणतायाञ्च मेयत्वविशिष्टव्यभिचारविषयिताप्रयोज्यत्व विरहारदुपादाने न तत्रातिव्याप्तिः । स्वविषयिताप्रयोज्यत्वमपि स्वविषयितास्वव्यापकरूपावच्छिन्नप्रयोजकतानिरूपितप्रयोज्यत्वं वक्तव्यम्, अन्यथा धूमव्यभिचारिवह्निमान धूमवान् बढेरित्यादौ धूमव्यभिचारिवह्निमत्यतिव्याप्तिः, स्वात्मकधूमव्यभिचारिवह्निमत्वाव. छिन्नविषयिताप्रयोज्यायाम् पक्षे साध्यवैशिष्ट यावगाहित्वाभावाधिकरणतायां यत्किञ्चिविशिष्टान्तरविपयितात्वव्यापकरूपावच्छिन्न व्यभिचारविषयित्वाप्रयोज्यतवसवेन स्वपदेन धूमव्यभिचारिवलिमरवस्यैवोपादातुं शक्यत्वात् । तनिवेशे च न तत्रातिव्याप्तिः, बाधविषयितानन्तापातिधूमन्यभिचारिवतिमद्विषयितासाधारण
"Aho Shrutgyanam"