________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी
यथाश्रुत विशिष्टान्तराघटितत्वनिवेशे उपदर्शितव्यभिचारघटितबाधाव्याप्तः, विशिष्टान्तरविषयित्वा प्रयोज्यस्वविषयिताप्रयोज्यतादृशोभयाभाप्रयोजकाभावाधिकरणताकत्वरूपं तादृशविशेषणं निवेशनीयम् ।
"
२१२
* चन्द्रकला
यथाश्रुतेति । स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकम् अथच यद्रूपावच्छिन्नविषयक निश्चयाव्यवहितोत्तरमनुमितिसामान्ये विरोधिविषयिताप्रयुक्तोभयाभावस्तादृशं यद्रूपं तद्रूपावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत् स्वं तादृशस्वावच्छि न्नविषयक निश्चयाव्यवहितोत्तरानुमितिसामान्ये विरोधिविषयिताप्रयुक्तो निरुक्तोभयाभावस्तादृशस्ववत्त्वं यदि विशिष्टान्तराऽघटितत्वसहितलक्षणार्थस्तदा प्रमेयत्वविशिष्ट
स्थात्,
व्यभिचारे नातिव्याप्तिः, प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् अत्रवदन्तिकल्पोक्तलक्षणाश्रयीभूतं व्यभिचारत्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वेऽसत्त्वात् स्वपदेन तस्यो - पादातुमशक्यत्वादिति चेत् ? पूर्वोक्तरीत्या धूमव्यभिचारिवह् निमान् धूमवान् वनेरित्यादौ धूमाभाववद्धूमव्यभिचारिवह् निमद्रूपव्यभिचारघटित वाघेऽव्याप्तिः तादृशवाघत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् धूमव्यभिचारिवह्नित्वम् अथ च निरुक्तात्रवदन्तिकल्पोक्तलक्षणाश्रयीभूतं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशवाघत्वे विरहात् धूमाभाववद्धूमव्यभिचारिवहूह्निमत्त्वरूपवाघत्वस्यापि स्वपदेनोपादानाऽसम्भवादतोऽन्यादृशमेव विशिष्टान्तराऽघटितत्वं यद्रूपविशेषणमाह विशिष्टान्तरेति । स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकावच्छिन्नार्थकम् ।
वस्तुतो निरुक्तविशिष्टान्तराघटितत्वघटकं स्वपदं लक्ष्यतावच्छेदकत्वेनाभिमतधर्मपरं नतु लक्ष्यत्वेनाभिमतव्यक्तिपरम्, तथासति व्यभिचारस्य प्रमेयत्वविशिष्टव्यमिचारात्मकतया विशिष्टान्तरत्वाऽसम्भवेन विशिष्टव्यभिचारेऽतिव्याप्तिः स्यात् ।
तथाच स्वावच्छिन्न विषयितात्वावच्छिन्न प्रयोजकता निरूपितप्रयोज्यतावती स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकयद्रूपावच्छिन्न विषयकनिश्चयाव्यवहितोत्तरानुमि
छ कलाविलासः छ
I
स्वविषयिताप्रयोज्येति । पर्वतत्वसामानाधिकरण्येन धूमसाध्यकवह्निहेतुकस्थले मेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः पर्वतो धूमाभाववानित्याकारकबाधभ्रमनिश्चयोत्तरानुमितिनिष्ठो भयाभावप्रयोजक-पक्षे साध्यवैशिष्टयावगाहित्वाभावाधिकयरणता विशिष्टान्तरव्यभिचारविषयित्वाऽप्रयोज्यत्वस्य सत्वात् पर्वतो धूमवान्
·
"Aho Shrutgyanam"