________________
२११
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी * यकानुमितेः साध्यावच्छिन्नपक्षविधेयकानुमितेश्वोत्पत्त्या तत्रोभयाभावासत्त्वादपि नातिप्रसक्तिरिति वाच्यम् , यत्र विषयविशेषे सिषाधयिषाबलात् सिद्ध्युत्तरं तादृशानुमितिः कदापि न जाता तत्रैवातिव्याप्तिसम्भवात् । द्वितीयकल्पे विषयितामात्रं निवेश्यं न तु विरोधिविषयितापर्यन्तमित्याशयेनाह मानसज्ञान इति । साध्यनिश्चयस्येत्यादिः । अत्र प्रमेयत्वविशिष्टव्यभिचारादिवारणाय
* चन्द्रकला * पर्वतो वह्निमान् पर्वतो नीलवह्निमानित्याकारकानुमितेरित्यर्थः । ___ पक्षतावच्छेदकतापर्याप्त्यधिकरणधर्माद्यवच्छिन्न विशेष्यतानिरूपितसाध्यतावच्छे - दकतापर्याप्त्यधिकरणधर्माद्यवच्छिन्न प्रकारकत्वघटितोभयाभावस्यावश्यं विवक्षणीयतया सिद्ध्युत्तरं पक्षाग्रंशेऽधिकावगाहिन्या अनुमितेरुत्पादेऽपि सिद्धिविषयेऽतिव्यासिवारणं न सम्भवतीत्यतः साध्यधर्मितेत्युक्तम् । वह्निमान् पर्वतो रूपवानित्यनुमितेरित्यर्थकम् । साध्यावच्छिन्नेति । अयं वह्निमत्पर्वतवानित्यनुमितेरित्यर्थः । तत्र = निरुक्तानुमितौ । नातिप्रसंगप्रसक्तिरिति । तथाच विरोधित्वं विषयिताविशेषणं निरर्थकमिति भावः।
उत्तरयति यत्रेति । यादृशस्थलविशेषे इत्यर्थः । तादृशानुमितिः-अधिकावगाहिनी साध्यधर्मितावच्छेदककान्यविधेयिका साध्यावच्छिन्नपक्षविधेथिका चानुमितिः । तत्रैव = तादृशस्थलविशेष एव । अतिव्याप्तिसम्भवादिति । सिद्धिविषये साध्यवत्पक्षेऽतिव्याप्तिरिति तादृशातिव्याप्तिवारणायव विरोधिपदं सार्थकमित्याशयः।
द्वितीयकल्पे = यद्रूपावच्छिन्नविषयकनिश्चयोत्तरमनाहार्यमानसज्ञाने इत्यादिकल्पे । साध्यनिश्चयस्येत्यादिरिति । साध्यविधेयताकानुमिति प्रत्येव साध्यनिश्चयस्य प्रतिबन्धकतया वह्निमत्पर्वतनिश्चयोत्तरोत्पन्ने पर्वतो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकमानसप्रत्यक्ष तादृशोभयाभावविरहादेव साध्यवत्पक्षेऽतिव्याप्तिवारसम्भवे द्वितीयकल्पे विषयितायां विरोधित्व विशेषणमनुपादेयमेवेति भावः ।
ननु निरुक्तात्रवदन्तिकल्पेऽपि प्रमेयत्वविशिष्ट व्यभिचारेऽतिव्याप्तिः, प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयकनिश्चयोचरानुभितेः पक्षः साध्यवानित्याकारकत्वसम्भवेऽपि व्यभिचारनिश्चयस्य व्याप्तिग्रहं प्रति प्रतिबन्धकतया साध्यव्याप्यहेतुमानित्याकारकत्वाऽसम्भवात् तादृशघटाद्यनुमितौ च यथोक्तोभयाभावस्याऽक्षतत्वादित्यत आह मेयत्वेति । मेयत्वविशिष्टव्यभिचारादीत्यत्रादिपदात् प्रमेयत्वविशिष्टवाधादिपरिपहः।
"Aho Shrutgyanam"