________________
२१० अनुमानगादाधों सामान्यनिरुक्तिप्रकरणम्
गादाधरीविशिष्टपक्षविषयता-साध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितपक्षताव. च्छेदकावच्छिन्नविशेष्यताबहिर्भूतविषयताया वा विवक्षितत्वादिति भावः।
न च सिषाधयिषाधीनायां साध्यनिश्चयानन्तरं समूहालम्बनानुमितौ तादृशोभयाभावासत्त्वात् सिद्धिविषयेऽतिप्रसङ्ग एव नास्ति, एवं पक्षे साध्यनिश्चयोत्तरं तदतिरिक्ताविषयकसाध्यविषयकानुमितेरनुत्पादेऽपि पक्षांश साध्यांशे वाऽधिकावगाहिन्या अनुमितेः साध्यधर्मितावच्छेदककान्यविधे
ॐ चन्द्रकला तथाच काञ्चनमयपर्वतो वह्निमानित्यत्र काञ्चनमयत्वाभावविषयिता काञ्चनमयत्वाभावव्याप्यविषयिता च विरोधिविषयिता, हृदो वह्निमानित्यादौ तु हृदविषयिता. निरूपितवह्नयभावविषयिता तादृशवह्नयभावव्याप्यविषयिता च विरोधिविषयितापदेनोपादेयेति भावः।
लाघवादन्यथा निर्वक्ति साध्यतेति । साध्यतावच्छेदकावच्छिन्न प्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयिताभिन्नाया विषयितायाः तादृशविषयित्वावच्छिन्नभेदप्रतियोगितानवच्छेदिकाया वा विषयिताया विरोधिविषयितापदेन विवक्षितत्वादित्यर्थः । तथाच न सिद्धिविषये साध्यवत्पक्षेऽतिव्याप्तिः, वह्निमत्पर्वतविषयिताया वह्नयभाव-तद्वयाप्यान्यतरविषयितानात्मकतया साध्यवत्पक्षविषयिताभिन्नत्वाभाववत्तया च तस्या विरोधिविषयितानात्मकत्वादित्याशयः।
ननु पर्वतो वह्निमान् धूमादित्यादौ पर्वतो वह्निमानित्याकारकनिश्चयरूपसिद्धिविषये वह्निमत्पर्वतेऽतिव्याप्तिरेव न सम्भवति, पर्वते वह्नयनुमिति यतामित्याकारकसिषाधयिषाधीनायां पर्वतो वह्निमानित्यादिनिश्चयोत्तरोत्पन्नायां पर्वतो वह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकसमूहालम्बनानुमितौ पर्वतादिविशेष्यकवह्निप्रकारकत्वघटितोभयाभावविरहात् । यद्यपि यादृश सिद्धयात्मकपरामर्शपूर्वक्षणे अव्यहितोत्तरक्षणे वा सिषाधयिषैव नोत्पन्ना तादृशसिद्धिविषये साध्यवत्पक्षेऽतिव्याप्तिरित्युच्यते, तथापि न निस्तारः, पर्वतो वह्निमानितिसिद्ध्युत्तरं पर्वतो वह्निमानित्याकारकस्वसमानविषयकानुमित्यनुत्पादेऽपि तादृशसिद्ध्युत्तरं नीलपर्वतो वह्निमान् पर्वतो नीलवह्निमान् वह्निव्याप्यधूमवांश्चेत्याकारकानुमितेः वह्निमान् पर्वतो रूपवानित्याकारिकायाश्चानुमितेरुत्पत्त्या तत्र तादृशोभयाभावविरहादिति विरोधिपदं व्यर्थमित्याशंकते नचेति । वाच्यमितिपरेणान्वयः ।
सिषाधयिषाया अनुत्पादस्थले साध्यवत्पक्षेऽतिव्याप्तिवारणमसम्भवीत्याशंकायामाह एवमिति । तदतिरिक्वेति सिद्धिविषयातिरिक्तार्थकम् । अधिकेति । नोल
"Aho Shrutgyanam"