________________
२०९
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
® गादाधरी यकत्वादित्यनुषज्यते । न क्षतिः = न साध्यवत्पक्षेऽतिव्याप्तिः ।
विरोधिविषयितापदेन ताहशोभयाभावप्रतियोगितावच्छेदककोटौ य. द्रूपावच्छिन्नांशे यद्रूपावच्छिन्नवैशिष्टयावगाहित्वं निविष्टं तद्रूपावच्छिन्नविषयितानिरूपिततद्रूपावच्छिन्नाभाव-तव्याप्यान्यतरविषयितायाः साध्य
* चन्द्रकला * अतिव्याप्तिरिति । विषयितायां विरोधित्व विशेषणानुपादाने पर्वतो वह्निमान् धूमादित्यादौ सिद्धिविषये वह्निमत्पर्वतेऽतिव्याप्तिः, वह्निमत्पर्वतनिश्चयस्य सिद्धिविधया पर्वतधर्मिकवह्निविधेयकानुमितिप्रतिबन्धकतया तादृशनिश्चयाव्यवहितोत्तरघटपटाद्यनुमितिसामान्यनिष्ठस्य पर्वतविशेष्यकवह्निप्रकारकत्वघटितोभयाभावस्य वह्निमत्पर्वतविषयिताप्रयुक्तत्वादतो विरोधित्वमवश्यं विषयिताया वक्तव्यमिति भावः ।
ननु सिद्धिविषयिताया अपि पक्षधर्मिकसाध्यानुमितिप्रतिबन्धकतावच्छेदकतया विषयितायां विरोधिस्वविशेषणोपादानेऽपि न सिद्धिविषये साध्यवत्पक्षेऽतिव्याप्तिवारणं सम्भवतीत्यत आह विरोधीति । विरोधिपदोपादानबलेनेत्यर्थः ।
तादृशोभयति । प्रकृतपक्षविशेष्यतानिरूपितप्रकृतसाध्यप्रकारकत्व-प्रकृतसाध्यव्यायहेतुप्रकारस्वरूपोभयाभावप्रतियोगितावच्छेदककोटावित्यर्थः । यद्पेति । यद्रू पावच्छिन्नविशेष्यतानिरूपितयद्रूपावच्छिन्नप्रकारकत्वमित्यर्थः। तद्रूपेति । तद्रूपावच्छिन्नविषयितानिरूपिता या तद्रूपावच्छिन्नाभाव-तद्रूपावच्छिन्नाभावव्याप्यान्यतरविषयिता सैव विरोधिविषयिताशब्दार्थः ।
___* कला वलासः ॐ न साध्यवत्पक्षेऽतिव्याप्तिरिति । ननु पर्वतो वह्निमानित्याकारकसाध्यनिश्चयोत्तरं वह्निमानु पर्वतो रूपवानित्यनुमितेरुत्पादात् सिद्धिप्रतिबध्यतावच्छेदक साध्यविधेयत्वमेव वाच्यं न तु साध्यप्रकारकत्वम्, तथाच कथं साध्यवत्पतेऽतिव्याप्तिः ? प्रतिबध्यतावच्छेदकधर्माभावं प्रत्येव प्रतिबन्धकतावच्छेदकविषयितायाः प्रयोजकतया साध्यप्रकारकत्वघटितोभयाभावं प्रति साध्यवरपक्षविषयिताया अप्रयोजकत्वादितिचेन्न, यादृश सिद्ध्युत्तरं तत्प्रकारकं ज्ञानं कदापि न जातं तादृशसिद्धिप्रतिबध्यतावच्छेदकतायाः लाघवात् तत्प्रकारताया एव स्वीकरणीयतया तादृशसिद्धिविषये साध्यवत्पक्षेऽतिव्याप्तेरेव ग्रन्थतात्पर्यस्यावश्यकत्वात् ।
अत्र वदन्तिकल्पे यदि प्रयोजकतैक्यं स्यात् तदा वह्नयभाववजलववृत्तिजलवज्रदेऽतिव्याप्तिवारणाय विशिष्टद्वयाऽघटितत्वमपि निवेश्यमित्यप्याहुः ।
१४
"Aho Shrutgyanam"