________________
१२० अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम्
* गादाधरी* वत्ताघटितस्य वह्नयभाववज्जलादिमद्वृत्तिजलादिविशिष्टस्य हृदादिरूपपक्षस्य जलवान् वह्नयभाववानित्यादिज्ञानसहितस्य जलवाँश्च हद इत्यादिज्ञानस्य तादृशज्ञानविशिष्टताहशज्ञानत्वेनैव प्रतिबन्धकतया तादृशप्रतिबन्धकताशून्यज्ञानाविषयस्य सत्प्रतिपक्षाचनात्मकस्य वारणाय ज्ञानवैशिष्टयानवच्छिन्नत्वस्य प्रतिबन्धकतायामवश्यं निवेशनीयतया मन्मतेऽपि तत्रानतिप्रसङ्गादिति वाच्यम् ,
ॐ चन्द्रकला साघटितस्येत्यर्थः । तादृशेति । जलवान् वन्यभाववानित्याकारकनिश्चयविशिष्टजलवांश्च हद इत्याकारकनिश्चयत्वेनेत्यर्थः । प्रतिबन्धकतयेति । हृदादिधर्मिकवहन्याद्यनुमितीत्यादिः ।
वहन्यभाववजलवकृत्तिजलवद्धदत्यावच्छिन्नविषयकत्वस्य निरुक्तज्ञानविशिष्टज्ञाने एव सत्त्वं सूचयितुमाह ताशप्रतिबन्धकतेति। तादृशज्ञानविशिष्टज्ञानत्वावच्छिन्नप्रतिबन्धकताशून्यं यज्ज्ञानं तदविषयीभूतस्य तादृशविशिष्टस्येत्यर्थः । तथाच वह्नयभाववजलवद्वृत्तिजलवद्धदरूपविशिष्टविषयकत्वस्य तादृशज्ञानविशिष्टज्ञाननिष्ठतया तद्वयापकतायाः प्रकृतानुमितिप्रतिबन्धकतायामक्षतत्वाद् भवति हृदो वह्निमानित्यादौ तादृशविशिष्टेऽतिव्याप्तिरिति भावः ।
सत्प्रतिपक्षाद्यनात्मकस्येति । साध्याभावव्याप्त्यघटितत्वादित्यादिः । मन्मतेपीति । स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वमभ्युपगच्छतो मम मतेऽपीत्यर्थः । तत्र = पाषाणमयत्ववत्पर्वते । अनतिप्रसंगादिति । पर्वतो वह्निमान् धूमादित्यादावित्यादिः ।
अर्थात् उभयमते एव ज्ञानवैशिष्ट्यानवच्छिन्नत्वस्य प्रतिबन्धकताविशेषणत्वे जलव्यापकवह्नयभावसमानाधिकरणजलव-हदरूपसत्प्रतिपश्चेऽव्याप्तिः, हृदादिधर्मिकवह्नयाद्यनुमिति प्रति तादृशसत्प्रतिपक्षात्मकविशिष्टविषयकैकनिश्चयत्वेन जलव्यापको वयभावः इत्याकारकनिश्चयविशिष्टवह्नयभावसमानाधिकरणजलवांश्च हद इत्याकारकनिश्चयत्वेन च प्रतिबन्धकताद्वयकल्पनस्य गुरुतया तत्र तादृशनिश्चयविशिष्टनिश्चयवेनैकप्रतिबन्धकताया एव कल्पनीयत्वात् तत एव तादृशविशिष्ट विषयकैकज्ञानस्थलेऽपि प्रकृतानुमितिप्रतिबन्धनिर्वाहसम्भवात् , एकज्ञानस्यैव तादृशशानविशिष्टज्ञानत्यानपायादिति निरुक्तसत्प्रतिपक्षनिश्चये ज्ञानवैशिष्ट्यानवच्छिन्न प्रतिबन्धकताविरहेण जल. व्यापकवह्नयभावसमानाधिकरणजलबद्धदनिश्चयत्वव्यापकत्वस्य तादृशप्रकृतानुमितिप्रतिबन्धकतायामभावादुभयमत एव प्रतिबन्धकताया ज्ञानवैशिष्ट्यानवच्छिन्नत्वनिवेशासम्भवादित्येवं समाधानमाह ज्ञानवैशिष्ट्यति ।
"Aho Shrutgyanam"