________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् ११९
* गादाधरी * व्याप्तिः। अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशपशे तादृशविशिष्टविषयतायाः पाषाणमयत्वावच्छेदेन वह्नयभावक्त्तानिश्चयाविशिष्टज्ञानसाधारणतया अनुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वेनातिप्रसङ्गानवकाशात् । नचानतिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशपक्षेऽपि जलाद्यवच्छेदेन वह्नयभाव
ॐ चन्द्रकला रूपावच्छेदकत्वनिवेशपक्षे तत्राऽतिव्याप्तिं वारयति ताशेति । पापाणमयत्ववत्पर्वतरूपविशिष्ट विषयिताया इत्यर्थः । वह्नयभाववत्तेति । पाषाणमयत्वावच्छेदेन पाषाणमयो न वह्निमान् इत्याकारकनिश्चयाविशिष्टो यः पर्वतः पाषाणमय इत्याकारकनिश्चयस्तत्राऽपि वर्तमानतयेत्यथः । अनुमितीति । ताशपाषाणमयत्ववत्पर्वतत्वाबच्छिन्नविषयितायाः स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकपर्वतादिधर्मिकवह्नयाद्यनुमितिप्रतिबन्धकताकत्वेनेत्यर्थः ।
ननु स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वविवक्षणेऽपि तादृशज्ञानविशिष्टज्ञानमादाय नोक्तातिव्याप्तिः यद्र पावच्छिन्नविषायतात्वव्यापकं ज्ञानवैशिष्टयानवच्छिन्नप्रकतानुमितिप्रतिबन्धकतावच्छेदकत्वं तद्र पवत्वमित्यस्यैव लक्षणार्थत्वोपगमात् पाषाणमयत्ववत्पर्वतत्वावच्छिन्न विषयितायाः पाषाणमयत्वावच्छेदेन वह्नयभाववत्ताज्ञानवैशिष्ट्यावच्छिन्नायामेव प्रतिबन्धकतायामवच्छेदकत्वात् पाषाणमयत्ववत्पर्वतत्वस्य यद्र पपदेनोपादानाऽसम्भवात् ।
नचैतन्मते प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिन्नत्वस्याधिकस्य प्रवेशनीयतया गौरवमिति वाच्यम्, अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशमतेऽपि जलावच्छेदेन जलवान् वह्नयभाववानित्याकारकनिश्चयविशिष्टस्य जलवांश्च हद इत्याकारकनिश्चयस्य म्हदो वह्निमानित्यनुमितिप्रतिबन्धकतया निरुक्तनिश्चयविशिष्टनिश्चयविषयस्य वह्नयभाववजलपवृत्तिजलवद्धदस्य वह्नयभावरूपसाध्याभावव्याप्त्यघटितत्वेन सत्प्रतिपक्षानात्मकतयाऽसम्भवल्लक्ष्यमावस्य विषयितायाः तादृशनिश्चयविशिष्टनिश्चय एव सत्वेन तत्र दादिपक्षकवहन्याद्यनुमितिप्रतिबन्धकताया निराबाधतया हदो वह्निमानित्यादौ वह्नयभाववजलवत्तिजलवघ्देऽतिव्याप्तिःस्यात् ,अतस्तद्वारणाय यद्रूपावच्छिनविषयकतादृशनिश्चयत्वव्यापकं ज्ञानवैशिष्ट्यानवच्छिन्नं प्रकृतानुमितिप्रतिबन्धकत्वं तद्र पवत्त्वमित्यस्यैव लक्षणार्थताया वक्तव्यतया प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिनवनिवेशस्योभयमतसिद्धतया गौरवानवकाशादित्याशयं मन्वान.शंकते नचेति । वाच्यमिति परेणान्वयः।
जलाद्यवच्छेदेनेत्यादि । जलव्यापकबहन्यभावप्रतियोगिकस्वरूपेण वहन्यभावव
"Aho Shrutgyanam"