SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम् * गादाधरी * मैवम्, स्वरूपसम्बन्धरूपावच्छेदकत्वप्रवेशे पापाणमयत्वाद्यवच्छेदेन वह्नयभाववत्तानिश्वयविशिष्टस्य पाषाणमयत्वादिविशिष्टस्य पक्षादेर्ज्ञानस्य वह्नयनुमितिप्रतिबन्धकतया तदवच्छेदकविषयिताकपाषाणमयत्ववत्पर्वतेऽति ११८ * चन्द्रकला * पर्वत इत्याकारकनिश्चयस्य ज्ञानद्वयात्मकस्य समूहालम्बनरूपस्य वा सत्त्वदशायां पर्वतादौ वाद्यनुमित्यनुत्पादात् तादृशानुमितिं प्रति निरुक्तनिश्वयविशिष्टनिश्चयस्य प्रतिबन्धकताया आवश्यकतया समानाकारकज्ञानीयविषयताया ऐक्येन पाषाणमयत्वावच्छेदेन वचभाववत्ता निश्चयासमानकालीनपाषाणमयत्ववत्पर्यंत त्वावच्छिन्न विषयतायास्तादृशनिश्चयसमानकालीनपात्राणमयत्ववत्पर्वतत्वावच्छिन्न विषयित्वाभिन्नतया यत्र यत्र पाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयितात्वं वर्त्तते तत्र तत्रैव पर्वतादिधर्मिकवह्नयनुमितिप्रतिबन्धकतानिरूपितस्त्ररूपसम्बन्धरूपावच्छेदकताया अक्षतत्वात् यद्रूपपदेन पाषाणमयत्ववत्पर्वतत्वस्योपादातुं शक्यत्वात् । यद्रूपावच्छिन्न विषयकताहशनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्र - पवत्त्वमित्याकारका नतिरिक्तवृत्तित्व रूपावच्छेदकत्व घटितलक्षणार्थाभ्युपगमे तु न तत्र पाषाणमयत्ववत्पर्वतेऽतिव्याप्तिः, तादृशपाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयकनिश्चयत्वस्य पाषाणमयत्यावच्छेदेन वह्नयभाववत्तानिश्चयाऽसमानकालीनेऽपि पात्राणमयः पर्वत इत्याकारकनिश्चये वर्त्तमानतया तत्रानुमितिप्रतिबन्धकताया असत्त्वादेतन्मते पाषाणमयत्ववत्पर्व तत्वस्य यद्रूपानन्तर्गतत्वादित्येवं नन्वित्यादेरुत्तरमाह मैवमित्यादि । ज्ञानस्य = निश्चयस्य । तदवच्छेदकेति । तादृशानुमितिप्रतिबन्धकतावच्छेदकविषयितानिरूपकपाषाणमयत्वविशिष्टपर्वतादावतिव्याप्तेरित्यर्थः । अनतिरिक्तवृत्तित्व ܝ * कलाविलासः ** पाषाणमयस्ववत्पर्वतेऽतिव्याप्तिरिति । श्रय पापाणमयत्ववत्पर्वतविषयतासामान्यान्तर्गतायाः वह्निमान् पर्वतः पाषाणमय इत्याकारकज्ञानीयपाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयताया अपि धर्तुं शक्यतया तत्र चानुमितिप्रतिबन्धकतावच्छेदकत्वविरहादेव पाषाणमयत्त्ववत् पर्वतेऽतिव्याप्तिवारण सम्भवे तत्राऽतिव्यासिदानमसंगतम्, पाषाणमयो न वह्निमान् इत्याकारकज्ञानकाले वह्निमान् पर्वतः पाषाणमय इतिज्ञानस्याहार्यतया प्रकृतानुमित्यप्रतिबन्धकत्वादिति चेन, अव्यापकीभूतविषयिताशून्यत्वस्यावश्यं निवेशनीयतया पाषाणमयत्ववत्पर्वतत्वावच्छिन्नविषयत्वाव्यापकीभूतविषयिताशून्य ज्ञानीयत्वस्य वह्निमान् पर्वतः पाषाणमय इतिज्ञानीय पाषाणमयध्ववत्पर्वतत्वावच्छिन्नविषयितायामसत्येन तादृशज्ञानीयपाषाणमयत्त्ववत्पर्व तत्वावच्छिन्नविषयतायास्तादृशविषयितासामान्यानन्तर्गतत्वादेव तत्राऽतिव्याप्तिदान संगतेः । "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy