________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
११७ * गादाधरी * तथासत्ति अनाहाय॑ज्ञानीयविशिष्टविषयितात्वव्यापकताया एव विवक्षणीयत्वात् , तावतापि संशयान्यत्वाप्रामाण्यज्ञानानास्कन्दितत्वाप्रवेशेन लाघवानपायात् ।
* चन्द्रकला* समाधत्ते तथा सतीति । असम्भववारणायानाहायित्वस्य यद्पावच्छिन्नविषयतायां निवेशे कृते सत्यपीत्यर्थः । लाघवानपायादिति । तथाच स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वपक्षे आहार्यज्ञानीयविषयितासाधारणविशिष्ट विषयितात्वव्यारकत्वस्य तादृशावच्छेदकतायामसत्त्वादसम्भववारणाय यद्पावच्छिन्नविषयितायामनाहा- यत्वविवक्षणेऽपि संशयान्याप्रामाण्यज्ञानानास्कन्दितज्ञानोयत्वस्य तादृशविषयितायामनिवेशेन स्वरूपसम्बन्धरूपावच्छेदकत्वघटितलक्षणस्यैव लधुत्वात् , अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वघटितलक्षणेऽसम्भववारणाय यद्पावच्छिन्नविषयकज्ञाने संशयान्यत्वादिनिवेशत्यावश्यकत्वादिति तु परमार्थः ।
यद्पावच्छिन्न विषयतात्वव्यापकं प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताया:स्वरूपसम्बन्धरूपावच्छेदकत्वं तद्रूपवत्त्वमित्यादिरीत्या लक्षणार्थनिर्वचने पर्वतो वह्निमान् धूमादित्यादौ पाषाणमयत्यवत्पर्वतेऽतिव्याप्तिः, पाषाणमयत्वावच्छेदेन पाषाणमयो वह्नयभाववानित्याकारकनिश्चयविशिष्टपाषाणमयत्वऽवांश्च
* कलाविलासः * तथा सत्यनाहार्येति । नचानाहार्यज्ञानीयविषयितायां प्रतिबन्ध कतावच्छेदकत्वाभिधानं निरर्थकमव्यापकीभूतविषयिताशून्यज्ञानीयत्वस्य विषयितायां विवक्षणादेवाहार्यज्ञानवारणसम्भवादिति वाच्यम्, गुणपक्षकद्रव्यस्वसाध्यकस्थले द्रव्यभिन्नगुणरूपबाधेऽव्याप्त्यापरोः, द्रव्यभिन्नगुणत्वावच्छिन्नविषयकत्वसमानाधिकरणाभावप्रतियोगितावच्छेदकं यद्विषयितास्वं तच्छून्यत्वस्य द्रव्यस्वस्वावच्छिन्नविषयतानिरूपितद्व्यभिन्नगुणत्वावच्छिन्नविशेष्यताकज्ञाने सत्त्वेन सदीयविपयितायां प्रतिबन्धकसावच्छेदकत्वविरहात् । तज्ज्ञानविशिष्टज्ञानत्वं तज्ज्ञानसमानाकारक ज्ञानत्यम्, वैशिष्टय स्वनिरूपितमुख्यविशेष्यताविशिष्टमुख्यविषयताकत्वसम्बन्धेन । तादृश विशेष्यतावैशिष्टय स्वावच्छेदकतापर्याप्त्यधिकरणधर्मपर्याप्तावच्छेदकताकत्व--स्वनिरूपितमुख्यविशेष्यतानात्मकविषयतावच्छेदकतापर्याधयधिकरणधर्मावच्छिन्नविषयतानिरूपितत्वोभयसम्बन्धेनेत्यवधेयम् ।
"Aho Shrutgyanam"