________________
१२१
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
* गादाथरो ® ज्ञानवैशिष्ट्यानवच्छिन्नत्वस्य प्रतिबन्धकताविशेषणत्वे प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणतध्देतुमत्पक्षरूपसत्प्रतिपक्षाव्याप्तः । साध्याभावांशे तद्व्यापकताग्रहविशिष्टतद्वत्ताज्ञानत्वेन स्वतन्त्रसाध्याभावर्भिकतव्यापकताग्रहविशिष्टतद्वत्ताज्ञानसाधारण्यानुरोधेनावश्यकल्प्यप्रतिबन्धकतयवोपपत्तः, तादृशविशिष्टज्ञानस्य ज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धकतान्तरे मानाभावादुक्तविशिष्टेतिऽप्रसङ्गस्तु विवक्षणीयविशिष्टान्तराघटितत्वनिवेशनेनैव वारणीयः । न च ज्ञानद्वयसाधारणप्रतिबन्धकतायाः
* चन्द्रकला * प्रतिहत्विति । जलादिव्यापकवह्नयभावादिसमानाधिकरणजलादिमद्धदादिरूपसत्प्रतिपक्षेऽव्याप्तिरित्यर्थः । तद्व्यापकतेति । प्रतिहेतुव्यापकतानिश्चयविशिष्टसाध्याभावसमानाधिकरणप्रतिहेतुमत्तानिश्चयत्वेनेत्यर्थः । स्वतन्त्रेति । जलव्यापक. वह्वयभावसमानाधिकरणजलवद्धदरूपैकविशिष्टज्ञान-वढयभावधर्मिकजलव्यापकताज्ञानविशिष्टवढयभावसमानाधिकरणमलवदध्रदज्ञानोभयसाधारण्यानुरोधेन अवश्यक्लप्तज्ञानविशिष्टज्ञानत्वावच्छिन्न प्रतिबन्धकतयैवोपपत्तरित्यर्थः । तादृशेति ! जलव्यापकवह्नयभावसमानाधिकरणजलवद्धदरूपविशिष्टसत्प्रतिपक्षनिश्चयस्येत्यर्थः ।
ज्ञानवैशिष्ट्येति । गौरवादित्यादिः। मानाभावादिति । तथाच प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिन्नत्वनिवेशे उभयमत एवोक्तसत्प्रतिपक्षेऽव्यासिरिति भावः ।
नन्वेवमनतिरिक्तवृत्तित्वरूपावच्छेदकत्वस्याऽश्यं निवेशनीयत्वे वह्नयभाववजलववृत्तिजलवद्धदरूपेऽतिव्याप्तिः, तादृशविशिष्टनिश्चयत्वस्य जलावच्छेदेन वह्नयभावनिश्चयविशिष्टजलवांश्च ह्रद इत्याकारकज्ञानविशिष्टज्ञान एव सत्वेन तत्राऽनुमितिप्रतिबन्धकताया अक्षतत्वादित्यत आह उक्तविशिष्ट इति ।
वन्यभाववजलप्रवृत्तिजलवद्धदरूपविशिष्टऽतिप्रसंगस्त्वित्यर्थः । विवणक्षीयेति । दीधितिकृता विवक्षणीयं यद्विशिष्टान्तराऽघटितत्वं तादृशविशेषणेनैवेत्यर्थः । वन्यभाववजलवद्वृत्तिजलवद्धदात्मकं यविशिष्टं तद्भिनं यद् वन्यभाववजलवदादिरूपं विशिष्टान्तरं तद्वटितत्वस्यैव वहन्यभाववजलववृत्तिजलवद्धदे विद्यमानतया तद्घटितत्वस्य तत्राऽसत्त्वान्न तादृशविशिष्टेऽतिव्याप्तिरित्यभिमानः ।
अभिमानं निराकत्तु माह नचेति । वाच्यमितिपरेणान्ययः । ज्ञानद्वयेति । जला
"Aho Shrutgyanam"