________________
१२२ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरी
प्रत्येकज्ञानविषयविशिष्टविषयकत्वं नानतिरिक्तवृत्ति त्वरूपावच्छेदकतावत् , तथाच दर्शितविशिष्टघटकस्य प्रत्येकज्ञानविषयस्य न निरुतविशिष्टान्तरात्मकतेति निरुक्तविशिष्टान्तराघटितत्वमुक्तविशिष्टस्याक्षतमेवेति वाच्यम् , वक्ष्यमाणविशिष्टान्तरार्धाटतत्वस्येव यादृशविशिष्टविषयकनिश्चयविशिष्टयाशविशिष्टविषयकनिश्चयत्वं प्रतिब
* चन्द्रकला * वच्छेदेन वह्नयभाववत्ताज्ञान-जलवांश्च हद इत्याकारकज्ञानद्वयनिष्ठायाः प्रतिबन्धकताया इत्यर्थः । प्रत्येकेति । केवलबह्नयभाववजलवत्तावच्छिन्नरूपविशिष्टविषयकत्वमित्यर्थः । नानतिरिक्तति । केवलवह्नयभाववजलादिविषयकत्वस्य जलवद्धदादिज्ञानाऽसमानाकालीनेऽपि जलवान्वह्नयभाववानितिज्ञाने क्त्तमानतया तत्र हृदादिधमिकवह्नयाद्यनुमितिप्रतिबन्धकताया विरहादित्याशयः ।
दर्शितेति । यह्नयभाववजलबद्वृत्तिजलादिमद्धदात्मकविशिष्टधटकस्येत्यर्थः । प्रत्येकेति । जलावच्छेदेन वह्नयभाववत्ताज्ञानविषयस्य जलादिमांश्च -हद इत्याकारकज्ञानविषयस्य चेत्यर्थः । विशिष्टान्तरेति । प्रकृतानुमितिप्रतिबन्धकतानतिरिक्त वृ. त्तिविषयिताकविशिष्टस्यैव विशिष्टान्तररूपत्वादिति भावः।
निरुक्तति । अनुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयिताकविशिष्टान्तराऽघटितत्वं वह्नयभाववजलवद्वृत्तिजलबद्धदस्य निराबाधमित्यर्थः । तथाच हृदादिधर्मिकवह्नयाधनुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयिताकवह्नयभाववद्धदादिरूपविशिष्टान्तराघटितत्वस्य वह्नयभाववजलववृत्तिजलवद्मदे वर्तमानतया विशिष्टान्तराऽघटितत्वविशेषणेनाऽपि नोक्तस्थलेऽतिव्याप्तिवारणं सम्भवतीति हृदयम् ।।
नन्वेवमुक्तविशिष्टे कथमतिव्याप्तिवारणमित्यत आह वक्ष्यमाणेति । प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिवारणाय यथा विशिष्टान्तराऽघटितत्वमवश्यं निवेश्यम् तथोक्तविशिष्टऽतिव्याप्तिवारणायापि विशिष्टद्वयाऽघटितत्वमपि निवेश्यमित्याशयः।
विशिष्टद्वयाऽघटितत्वविशेषणघटितलक्षणार्थमाह यादृशेति । तथाच यद्पाव. च्छिन्नविषयकनिश्चयविशिष्टयद्र पावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्र पावच्छिन्नविषयिताविशिष्टतद्र पावच्छिन्नविषयिताशून्यप्रतीतिविषयताव
* कलाविलासः * यारशविशिष्टविषयकनिश्चयेति । अत्र निश्चयवैशिष्टयं निश्चये एकक्षणावच्छिन्नै. कात्मवृत्तित्वसम्बन्धेन । तेन कालान्तरीयतादृशनिश्चयमादाय पुरुषान्तरीयतादृशनिश्चयमादाय वा विशिष्टद्वयाऽप्रसिद्धावपि नाऽसम्भवः ।
न च तादात्म्येन निश्चयवैशिष्टयाभिधानालाघवमिति वाच्यम्, तथा सत्ति
"Aho Shrutgyanam"