________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
१२३ गादाधरी न्धकत्तानतिरिक्तवृत्ति, तादृशविशिष्टद्वयाघटितत्वस्यापि निवेशनीयतया उक्तविशिष्टवारणसम्भवात् ।
* चन्द्रकला * च्छेदकयर पावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्र पवत्त्वं हेत्याभासत्वमिति फलितम् । अत्र च तादृशविषयिताशून्यप्रतीतिविषयतावच्छेदकत्वमेव विशिष्टद्वयाऽघटितत्वं तच्च लक्ष्यतावच्छेदकत्वेनाभिमतयद्र पविशेषणं बोध्यम् ।।
एवञ्च नोक्तविशिष्टऽतिव्याप्तिः जलावच्छेदेन वह्नयभावक्त्तानिश्चयविशिष्टजल. वांश्च हद इत्याकारकनिश्चयत्वब्यापकत्वस्य व्हदादिधर्मिकयथोक्तानुमितिप्रतिबन्धकतायां वर्तमानतया तादृशवह्नयभाववजलवत्त्वावच्छिन्नविषयिताविशिष्टजलवद्ध्दत्वावच्छिन्न विषयिताशून्यप्रतीतिविषयतावच्छेदकत्वस्य वह्नयभाववजलवद्वृत्तिजलवद्धदत्वेऽसत्त्वात् लक्ष्यतावच्छेदकय पपदेन निरक्तदत्वस्य धत्तु मशक्यत्वात् । भवतिच
दो वह्निमानित्यादौ बाधादौ लक्षणसमन्वयः । तादृशवह्नयभाववजलबत्तावच्छिन्न विषयिताविशिष्ट जलवद्धदत्वावच्छिन्नविषयिताशून्यप्रतीतिविषयतावच्छेदकत्वस्य वह्नयभावविशिष्ट हदत्वे वर्तमानत्वात् वह्नयभावविशिष्ट हदत्वादेश्च यद्र पपदेनोपादानसम्भवात् ।
अत्र तादृशविषयितात्यप्रतीतिविषयतावच्छेदकरूपवत्त्वमात्रोक्तो घटादावति. व्याप्तिः वह्नयभाववजलयत्वावच्छिन्नविषयिताविशिष्टजलवद्ध्दत्वावच्छिन्नविषयिताशून्यप्रतीतिविषयतावच्छेदकत्वस्य घटत्वादी सत्वादतस्तादृशविषयिताशून्यप्रतीतिविषयतावच्छेदकयद्र पावच्छिन्नविषयकनिश्चयत्वव्यापकत्वादिना विशेष्यदलमभिहितमेवमन्यत्राऽपि लक्षणसमन्वयः स्वयमूहनीयः, अधिकमन्यत्रानुसन्धेयमितिदिक् ।
* कलाविलासः * यादशस्थले तादृशनिश्चययोः समूहालम्बनरूपता न कस्यापि जाता तारशस्थले तादाम्यसम्बन्धेन निश्चयवैशिष्टयाऽप्रसिद्धया असम्भवतादवस्थ्यापरेरिति ध्येयम् । वस्तुतस्तु जातित्वेन जलत्वावगाहिजातिमान्वयभाववानितिनिश्चय विशिष्टस्य जलवांश्च हद इतिनिश्चयस्य जलवान् वह्नयभाववानितिनिश्चयसहितस्य चा जातित्वादिना हृदत्वावगाहिनो जलवांश्च जातिमानिस्याकारकनिश्चयस्य चानुमित्यप्रतिबन्धकतयाऽसम्भववारणाय यादृशविशिष्टविषयित्वाव्यापकीभूतविषयिताशून्यज्ञानीययादृश विशिष्टविषयिताशालिनिश्चयविशिष्टयादृशविशिष्टविषयित्वाव्यापकीभूतविषयिता - शून्यज्ञानीययादृशविशिष्टविषयिताशालिनिश्चयत्वमित्यादेरेवावश्यं निवेशनीयतया समूहालम्बनतादृशनिश्चयोपादानाऽसम्भवात् तादात्म्येन निश्चयवैशिष्टयं न विवक्षगीयमिति तु युक्तमुत्पश्यामः।
विशिष्टद्वयाघटितस्वशरीरे अनुमितौ प्रकृतपक्षसाध्यहेतुकावाऽप्रवेशे दो गगनाभाववद्वह्वयधिकरणनिरूपितवृत्तितावत्कालीनवह्निमान जलादित्यत्र तादृश
"Aho Shrutgyanam"