________________
१२४ अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम्
* कलाविलासः - वहिव्यापकीभूताभावप्रतियोगिजलरूपाऽसाधारण्येऽव्याप्तिः, वह्नयधिकरण निरूपित. वृत्तित्वावच्छेदेन गगनाभाववत्तानिश्चयविशिष्टाऽभावधर्मिकवह्नयधिकरणवृत्तितानि. श्वयस्य अभावो गगनवानित्यनुमितिप्रतिबन्धकतया तादृशविशिष्टद्वयघटिततत्वस्थ निरुक्ताऽसाधारण्ये सत्त्वात् ।
प्रकृतपक्षकत्वानिवेशे अभावो गगनाभाववद्वयधिकरणनिरूपितवृत्तितावत्कालीनवह्निमान् जलादित्येतादृशवहिव्यापकीभूताभावप्रतियोगिजलरूपाऽसाधारण्येऽव्याप्तिः, पूर्वोक्तनिश्चयविशिष्टनिश्चयस्य प्रकृतपक्षीभूताभावधर्भिकतादृशानुमिति प्रत्येव प्रतिबन्धकत्वात् ।
वस्तुतस्तु गगनवदभावो गगनाभाववद्वयधिकरणनिरूपितवृत्तितावत्कालीनवह्निमान् जलादित्यत्र तादृशसाध्यव्यापकीभूताभावप्रतियोगिजलरूपासाधारण्येऽव्याप्तिवारणाय विशेष्यदले यादृशप्रतिबध्यतानिरूपितप्रतिबन्धकतामादाय लक्षणं संगमनीयम् तादृशप्रतिवध्यतावच्छेदकावच्छिन्न प्रतिबध्यतानिरूपितप्रतिबन्धकतैव विशिष्टद्वयाऽघटितत्वशरीरे निवेश्या । तथाच प्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकताविशिष्टरूपवत्वं हेत्वाभासत्वम्, वैशिष्ट्यं स्ववृत्यभावीयावच्छेदकत्वनिष्ठप्रतियोगितानिरूपितपरम्परयावच्छेदकतावस्व-स्वाभाववत्प्रती. तिविपयत्तावच्छेदकत्वोभयसम्बन्धेन । स्वाभावश्च स्ववृत्त्यभावीयप्रतियोगितानिरूपितपरम्परया निश्चयनिष्ठावच्छेदकतानिरूपिता या सामानाधिकरण्यसम्बन्धावच्छिन्नावच्छेदकता तन्निरूपितविषयित्वनिष्टावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिनावच्छेदकतावद्धर्मविशिष्टधर्मावच्छिन्नविपथितावत्त्वसम्बन्धावच्छिन्नंप्रतियोगिताकः । धर्मवैशिष्टयं धर्मे स्वावच्छिन्नविषयिताविशिष्टविषयितानिरूपकतावच्छेदकत्वसम्बन्धेन विषयितावैशिष्ट्यं विषयितायां स्त्राश्रयसमानाधिकरणवृत्तित्वसम्बन्धेनेतिध्येयम् । एवञ्च पक्षसाध्यहेतुकरवानां पृथक निवेश एव नास्तीति बदन्ति ।
विशिष्टद्वयाघटितत्वशरीरे स्वरूपसम्वन्धरूपप्रतिबन्धकतावच्छेदकत्वविधक्षणे धर्मसम्बन्धसाधारणैकावच्छेदकताया वक्तुमशक्यत्वात् यादृशस्थलविशेषे जलवान् वह्नयभाववानितिज्ञानं जलवांश्च हद इति ज्ञानञ्च प्रमात्मकमेव भवति तदशस्थले सादृशज्ञानयोः विषयितासम्बन्धेन वह्नयभाववज्जलवद्विशिष्टज्ञानविशिष्टविषयितासम्बन्धेन जलवद्धदविशिष्टज्ञानत्वेनैव प्रतिबन्धकावं लाघवात्, एवञ्च लक्षणे यदि धर्मविधयाऽवच्छेदकत्वं निवेश्यते तदा वह्नयभाववज्जलववृत्तिजलवद्धदेऽतिव्याप्तिः, संसर्गविधयाऽवच्छेदकत्वनिवेशे तु वह्नयभाववत्तद्वयक्तित्वववृत्तितद्व्यक्तिस्ववदध्रदेऽतिव्याप्तिः, तादृशस्थले भ्रमात्मकज्ञानस्यापि सम्भवेन तादृशज्ञानयोः
"Aho Shrutgyanam"