________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
ॐ कलाविलासः® विषयितासम्बन्धेन प्रतिबध्यप्रतिबन्धकभावकल्पनाऽसम्भवात् ।
ननु विशिष्टद्वयाऽघटितत्वशरीरे निश्चयपदद्वयं किमर्थमितिचेन , जातिपक्षकद्रव्यत्वसाध्यकस्यले द्रव्यभेदवज्जाते धत्वेन लक्ष्यतया द्रव्यभेदवत्सद्देदवद्वृत्तिस दवजातित्वावच्छिन्नेऽतिव्याप्तयापत्तेः, सद्धिनं द्रव्यं न वेति संशयीयनिरवच्छिन्नद्रव्यत्वप्रकारकज्ञाने सद्भिन्नत्वावच्छिन्न विशेष्यतानिरूपितद्व्यत्वत्वावच्छिनविषयतायाः तादृशविशिष्ट विषयित्वाव्यापकीभूतायाः शून्यत्वस्य सत्त्वादेवमपरदिश्यपीति वदन्ति ।
अथोक्तकल्पे सामानाधिकरण्येन हृदपक्षकवह्निसाध्यकस्थले वह्नयभाववज्जलवद्वृत्तिजलवद्धदेऽतिव्याप्तिः, तादृशस्थलेऽवच्छेदावच्छेदेन जलवत्त्वस्यैव प्रकृतानुमितिविरोधितया व्यापकतावच्छेदकधर्मभेदेन व्यापकताभेदस्यावश्यकरवेन सर्वसा. धारणज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतायाः कल्पयितुमशक्यत्वात् , तत्र पृथकप्रतिबन्धकताकल्पने तु ज्ञानवैशिष्टयावच्छिन्नत्वनिवेशनमफलमिति तस्य विशिष्टद्वयाघटितत्वं निर्विवादमितिचेन्न ,
ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतास्थले सामानाधिकरण्येन ज्ञानद्वयमपि सामानाधिकरण्यावगाहिज्ञानं प्रतिबध्नातीत्यस्य तर्कमाथुयाँ प्रतिपादिततया दर्शितस्थलेऽपि सामानाधिकरण्यावगाहिज्ञानद्वयस्यैव ज्ञानवैशिष्ट्यावच्छिन्न प्रतिबन्ध - ताया श्रावश्यकत्वादिति ध्येयम् ।
वस्तुतो हृदधर्मिक हृदत्वसामानाधिकरण्येन वह्नयनुमिति प्रति जलवान् वयभाववान् जलवांश्च हृद इत्याकारकनिश्चयस्येव शैवालवान् वयभाववान् शैवालवांश्च हृद इत्याकारकनिश्चयस्यापि विभिन्नरूपेण प्रतिबन्धकताकल्पने गौरवात् लाधवात् निश्चयविशिष्टनिश्चयत्वेनैव तादृशनानाविधज्ञानानां प्रतिबन्धकत्वं कल्पनीयमिति न कोऽपि दोषः । वैशिष्टयम् एकक्षणावच्छेदेनैकात्मवृत्तित्वमिति प्राहुः ।
नचोक्तकल्पेऽसम्भवः वह्नयभावविशिष्टहदनिश्चयविशिष्टवह्नयभाववद्मदनिश्चयत्वस्य प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तितया विशिष्टद्वयविपययितापदेन वह्नयभाववद्धदादिविपयिताया एवोपादानसम्भवात् विशिष्टद्वयाघटितत्वघटकप्रतिबन्धकतायां ज्ञानवैशिष्ट्यावच्छिन्नत्वं निवेश्योक्तासम्भववारणे वलयभाववज्जलववृत्तिज लाभाववान् हृदो वह्निमानित्यन्न तादृशजलवद्धदरूपाश्रयाऽसिद्धावव्याप्तिः निरुक्ताश्रयासिद्धिनिश्चयस्य पक्षे साध्यप्रकारकबुद्धिं प्रत्यपि ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वादिति वाच्यम् , निरुक्तविशिष्टद्वयविषयितायां प्रतिबध्यताविशिष्टान्यत्वस्य विवक्षणीयत्वात् तत एव सर्वदोषाणामपि वारणसम्भवात् । वैशिष्ट्यं
"Aho Shrutgyanam"