________________
१२६
अनुमानगादायर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरीनचैवं तादृशविशिष्टद्वयधटितोक्तसत्प्रतिपक्षोऽव्याप्तिस्तस्य प्रतिहेतुव्यापकताविशिष्टसाध्याभाव-प्रतिहेतुविशिष्टपक्षात्मकनिरुक्तविशिष्टद्वयघटितत्वादिति वाच्यम् , सत्प्रतिपक्षघटकतादृशदलद्वयविषयताभिन्ननिरुक्तविशिष्टद्वयविषयताशून्यप्रतीतिविषयत्वस्य विशिष्टद्वयाघटितत्वार्थकत्वात् ।
8 चन्द्रकला ननूक्तरीत्या विशिष्टद्वयाघटितत्वनिवेशेऽपि जलव्यापकवलयभावसमानाधिकरण जलवज्रदरूपसत्प्रतिपक्षेऽव्याप्तिः, ताह शहदत्वरूपसत्प्रतिपक्षतावच्छेदकधर्मस्य प्रकृतानुमितिपतिबन्धकतानतिरिक्तवृत्तिजलव्यापकताविशिष्टवह्नयभावत्वावच्छिन्नविषयिताविशिष्ट वह्नयभावसमानाधिकरणजलबद्धदत्वावच्छिन्नविषयिताशून्यप्रतीतिविषयतावच्छेदकत्वाऽसम्भवात् तस्य विशिष्टद्वयाघटितयद्र पानन्तर्गतत्वादित्याशंकते नचेति । वाच्यमिति परेणान्वयः । तस्य = निरुक्तसत्प्रतिपक्षस्य । प्रतिहत्विति । जलव्यापकताविशिष्टवह्नयमाव-वलयभावसमानाधिकरणजलव-हदात्मकविशिष्टद्वयघटितत्वादित्यर्थः । उत्तरयति सत्प्रतिपक्षेति । प्रतिहेतुव्यापकताविशिष्टसाध्याभावरूपताशसत्प्र
___ कलाविलासः स्वावच्छेदकत्व-स्वनिरूपितप्रतिबन्धकतानवच्छेदकीभूतविषयिताशून्यज्ञाननिष्ठप्रकृता. नुमितिवव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वोभयसम्बन्धेन ।।
ननु वह्नयभाववज्जलवद्वृत्तिजलवद्धदेऽतिव्याप्तिशंकैव न सम्भवति, तस्य वह्नयभाववज्जलवनिरूपितवज्जलवद्धदरूपविशिष्टान्तरघटितत्वादिति विशिष्टद्वयाघटितत्त्वनिवेशो निरर्थक इति चेन्न,
जलव्यापकवह्नयभावाधिकरण निरूपितवज्जलवद्धदरूपविशिष्टान्तरघटिते जलव्यापकवह्नयभावसमानाधिकरणजल वद्धदरूपे सत्र तिपक्षेऽव्याप्तिवारणाय विशिटद्वयाऽघटितं यद्विशिष्टान्तरं तदघटितस्वनिवेशस्यावश्यकतया वह्वयभाववज्जलववृत्तिजलवद्धदेऽतिव्याप्तिवारणार्थमेव विशिष्टद्वयाघटितत्वनिवेशस्यावश्यकत्वात् ।
वस्तुतस्तु आधेयतासम्बन्धेन , वह्वयभाववज्जलवद्विशिष्टजलवद्धदेऽतिव्याप्तेरेवाशंकिततया विशिष्टद्वयाऽघटितत्वनिवेशो न निरर्थकः, निरुक्तविशिष्टस्य विशिष्टान्तरघटितत्वशंकायाः कथमप्यनुदयादिति प्राहुः ।
सत्प्रतिपक्षघटकेति । यादृशविशिष्टविषयकनिश्चयविशिष्टयादशविशिष्टविषयकनिश्चयत्वं सत्प्रतिपक्षतावच्छेदकरूपावच्छिन्न विपयित्वावच्छिन्न प्रतिबन्धकतानतिरिक्तवृत्ति तद्रूपावच्छिन्नविषयिताविशिष्टतद्पावच्छिन्नविषयिताभिन्नत्वमेव विशिटद्वयविषयितायां सत्प्रतिपक्षघटकविषयिताभित्रत्वं विवक्षणीयम्, तेन न यत्र सत्प्रतिपक्षाऽप्रसिद्धिरित्यादिग्रन्थस्याऽसंगतिरितिध्येयम् ।
"Aho Shrutgyanam"