________________
चन्द्रकला कलाविलासाख्यटीकाद्वयोपेतम्
* गादावरी
१२७
यत्र तादृशसत्प्रतिपक्षाप्रसिद्धिस्तत्र भिन्नान्तमनुपादेयमेव, साध्यादिभेदेन
* चन्द्रकला
तिपक्षघटक विषयिताभिन्नत्वे सति सत्प्रतिपच घटकसाध्याभावसमानाधिकरणप्रति हेतुमपक्षविषयिताभिन्ना या विशिष्टद्वयविषयिता तच्छून्यप्रतीतिविषयतावच्छेदकत्व रूपस्य विशिष्टद्वयाऽघटितत्वस्य तादृशयद्रूपविशेषणत्वोपगमान्नोक्तसत्प्रतिपक्षेऽव्याप्तिरिति
भावः ।
अयमभिप्रायः, यद्रूपावच्छिन्नविषयक निश्चय विशिष्टयद्रूपावच्छिन्नविषयक निश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपावच्छिन्न विषयिताविशिष्टतद्रूपावच्छिन्ना या सत्प्रतिपक्षतावच्छेदकरूपावच्छिन्नप्रकृतानुमितिप्रतिबन्धकतावच्छेदकविषयिताभिन्ना विषयिता तच्छून्यप्रतीतिविषयतावच्छेदकयद्रूपावच्छिन्न विषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्र पवचमित्युक्तौ नोक्तसत्प्रतिपक्षेऽव्याप्तिः तादृशप्रतीतिविषयतावच्छेदकत्वरूपविशिष्टद्वयाऽघटितत्वस्य जलव्यापकवह्नयभावसमानाधिकरण
जलवद्भदत्वेऽनपायात् तादृशसंत्प्रतिपक्षघटकविषयिताभिन्नविषयितापदेन वह्नद्यभाववज्जलवत्त्वावच्छिन्नविषयिताविशिष्टजलव दूधदत्वावच्छिन्नविषयिताया एवोपादातुं शक्य
त्वादिति ।
ननु सत्प्रतिपक्षघटकविषयिताभिन्नत्वस्य विशिष्टद्वयविषयितायां विवक्षणे पर्वतः धूमवान् वह्नेरित्यादौ धूमाभाववद्वृत्तित्वविशिष्टवह्निरूपव्यभिचारेऽव्याप्तिः, धूमाभाववदयोगोलकत्वावच्छिन्नविषयिताविशिष्टायोगोलकवृत्तिवहित्वावच्छिन्न विषयितायास्ताहशविशिष्टद्वयविषयितापदेनोपादानसम्भवेऽपि तत्र सत्प्रतिपक्षघटकविषयिताभिन्नत्वसम्पादनं दुःशक्यम्, तादृशपक्षसाध्यकस्थले सत्प्रतिपक्षस्यैवाऽप्रसिद्धत्वादित्यत आह यत्रेति । यादृशपक्षसाध्यकदुष्टहेतुकस्थले इत्यर्थः । तत्र = तादृशस्थले । भिन्नान्तमिति । विशिष्टद्वयविषयितायां सत्प्रतिपक्षघटकविषयिताभिन्नत्वं न देयमित्यर्थः । तथाच तत्र तादृशविशिष्ट विषयिताविशिष्टतादृशविशिष्टविषयिताशून्यप्रतीतिविषयतावच्छेदकत्वमेव विशिष्टद्वयाऽघटितत्वं लक्ष्यतावच्छेदकत्वेनाभिमतयद्रूपविशेषणमिति
भावः ।
नन्वेवं लक्षणस्याननुगम इत्यत आह साध्यादीति । आदिना पक्षहेत्वादिपरिग्रहः । तथाच पक्षसाध्यसाधनादिभेदेन लक्षणस्य भिन्नत्वमिष्टमेवेति हृदयम् । * कलाविलासः *
यत्र सत्प्रतिपक्षाsप्रसिद्धिस्तत्र विशिष्टद्वयाऽघटितत्व निवेशो न कर्तव्य इति तु नाशंकनीयम, काञ्चनमयपर्वतो वह्निमान् धूमादित्यादौ काञ्चनमयत्वाभाववचद्वयक्तिमद्वृत्तितद्व्यक्तिमत्पर्वतेऽतिव्याप्तिवारणार्थमेव तन्निवेशस्यावश्यकत्वात् ।
"Aho Shrutgyanam"