________________
१२८ अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी. लक्षणभेदात् भ्रमात्मकज्ञानीयतादृशविषयतासाधारणरूपेणैव प्रतिहेतुव्यापकताविशिष्टसाध्याभावादिविषयतोपेया।
वा
ननु लक्ष्यभेदेन लक्षणस्य भिन्नत्वे इतरभेदानुमाने भागासिद्धिः, लक्ष्यमात्रस्यैव पक्षतया यत्किञ्चिल्लक्षणस्यैव हेतुताया आवश्यकत्वात् तस्य लक्ष्यीभूतपक्षकदेशेऽसस्वादित्यत आह भ्रमात्मकेति । निरूप्यनिरूपकभावापन्न विषयितात्वेन रूपेणेत्यर्थः । एवञ्च पर्वतो धूमवान् वढेरित्यादिसर्वसाधारणमेकमेव लक्षणं वक्तव्य मित्याह प्रतिहत्विति । प्रतिहेतुव्यापकत्वविषयितानिरूपितसाध्याभावविषयिताभिन्नत्वे सति ताशहेतुविषयितानिरूपितपक्षविषयिताभिन्ना या तादृशविशिष्टद्वयविषयिता तच्छून्यप्रतीतिविषयतावच्छेदकत्वमेव यद्रूपविशेषणं देयमित्यर्थः । तथाच पर्वतो धूमवान् वह्नरित्यादावपि भ्रमात्मकजलव्यापकधूमाभावसमानाधिकरणजलवत्पर्वतज्ञानीयजल. व्यापकत्वविषयितानिरूपितधूमाभावविषयिताभिन्नत्वे सति जलविषयितानिरूपितपर्वतविषयिताभिन्नत्वस्य पूर्वोक्तविशिष्टद्वयविषयितायामशतत्वात् लक्ष्यभेदेन लक्षणस्य भिन्नत्वानभ्युपगमेऽपि न क्षतिरित्याशयः ।। - ननु हदो वह्निमानित्यादी जलब्यापकवलयभावसमानाधिकरणजलवद्धदस्य सत्प्रतिपक्षत्वमेव न स्वीक्रियते, अपितु वह्नयभावाभाववदवृत्तिमद्धदादेः वह्निमदवृत्तिमद्धदादेरेव तथात्वं स्वीकरणीयं, विशिष्टद्वयविषयितां सत्प्रतिपक्षघटकविषयिताभेदं प्रतिहेतुव्यापकत्वावच्छिन्नसाध्याभावादिविषयिताभेदं वा निवेश्य जलव्यापकवह्नयभावसमानाधिकरणजलवद्धदे लक्षणसमन्वयसम्भवे जलव्यापकवह्नयभावकालीनजलबद्धदेऽतिव्याप्तिधारणमशक्यं स्यात् , सत्प्रतिपक्षघटकविषयिताभिन्ना या वह्नय
* कलाविलासः * भ्रमेति । विरुद्धानुमितिजनकतावच्छेदकविषयितात्वावच्छिन्न भिन्नत्वमेव विशिष्टद्वयविपयितायां विवक्षणीयमिति तु विभावनीयम् ।।
ननु यादृशविशिष्टविषयकनिश्चयत्वं ज्ञानवैशिष्टयावच्छिन्न प्रतिबन्धकतानतिरि. क्तवृत्ति सादृशैकविशिष्टायटितत्त्वविवक्षयव निरुक्तविशिष्टे अतिव्याप्तबादिदोपवारणसम्भवे गुरुतरनिवेशनं किमर्थमितिचेन्न ,
वह्नयभाववज्जलवद्वृत्तिजलवद्धदत्त्वावच्छिन्न विषयतावान्न वह्नयभाववज्जलबत्कालीनजलवद्ध्दत्वावच्छिन्नविषयतावान्नेतिरीत्या भेदकूटनिवेशे गौरवादेकस्प्रैव वह्नयभाववज्जलवत्वावच्छिन्नविषयिताविशिष्टजलवद्धदस्वावच्छिन्नविपयित्वाभावस्य प्रवेशे लाघवमिति संक्षेपः ।
"Aho Shrutgyanam"