________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १२६
® गादाधरी न च दर्शितविशिष्टस्य सत्प्रतिपक्षरूपता न स्वीक्रियतेऽपि तु हेतुतावच्छेदकाघटितसाध्याभावाभावववृत्तिमत्पक्षात्मकविशिष्टस्यैव, व्यापकसामानाधिकरण्यरूपव्याप्तिविशिष्टस्य उक्तरीत्या संग्रहे तद्धर्मव्यापकसाध्याभावकालिकतद्धर्मविशिष्टपक्षादिव्यावृत्तिरप्यशक्या स्यादित्यविशेषेण व्यापकताघटितविशिष्टमात्रस्यालक्ष्यताया एव युक्तत्वात् , तथा चोक्तप्रयासमपेक्ष्य ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतानिवेशनमेवोचितमिति वाच्यम्,
ॐ चन्द्रकला भाववजलवत्त्वावच्छिन्नविषयिताविशिष्टजलवद्ध्दत्वावच्छिन्न विषयिता तच्छुन्यप्रतीतिविषयतावच्छेदकत्वस्य जलव्यापकवह्नयभावकालीनजलवद्ध्दत्वे सत्त्वादतो जलव्यापकवह्नयभावसमानाधिकरणजलवद्धदस्य सत्प्रतिपक्षानात्मकतया अलक्ष्यत्वमेव समीचीनमिति तत्र नातिव्याप्तिः, जलव्यापको वह्नयभाव इत्याकारकनिश्चयविशिष्टवड्यभावकालीनजलवद्धदनिश्चयीयविशिष्टद्वयविषयितायाः सत्प्रतिपक्षघटकविषयिताभिन्नत्वसत्वेन तच्छून्यप्रतीतिविषयितावच्छेदकत्वस्य जलव्यापकवह्नयभावकालीनजलवद्धदत्वेऽसत्त्वात् । ___ एवञ्च लाघवात् विशिष्ट द्वयाऽघटितत्वमनिवेश्य पर्वतो वह्निमान् धूमादित्यादौ पूर्वोक्तरीत्या पाषाणमयत्ववत्पर्वते -हदो वह्निमान् धूमादित्यादौ च वन्यभाववजलववृत्तिजलवद्धदेऽतिव्याप्तिवारणाय यद्र पावच्छिन्नविषयितात्वव्यापकं ज्ञानवैशिष्टयानवच्छिन्न प्रतिबन्धकतायाः स्वरूपसम्बन्धरूपावच्छेदकत्वं तद्र पवत्त्वमेव हेत्वाभासत्वमिति विवक्षणीयमित्येवं स्वरूपसम्बन्धरूपावच्छेदकत्ववादी पुनः शंकते नचेति । वाच्यमिति परेणान्वयः।
दर्शितेति । जलव्यापकवन्यभावसमानाधिकरणजलव-हदादिरूपविशिष्टस्येत्यर्थः । हेतुतेति । साध्याभावव्याप्यवत्पक्षरूपविशिष्टस्येत्यर्थः । उक्तरीत्या = विशिष्टद्वयविषयितायां सत्प्रतिपक्षघटकविषयिताभिन्नत्वादिकं निवेश्य । तद्धर्मेति प्रति हेत्वित्यर्थकम् । विशिष्टेति । प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतु. मत्पक्षात्मकविशिष्टमात्रस्येत्यर्थः । तथाच-निरुक्तविशिष्टस्यालक्ष्यत्वे च । उक्तप्र. यासमपेक्ष्य = गुरुतरविशिष्टद्वयाऽघटितत्वनिवेशमपेक्ष्य ।
तथा च स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्ववादिन एव विजयेरन् इत्याह ज्ञानवैशिष्ट्येति । तथापि प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिन्नत्वनिवेशे इदं वह्निमत् जलवादित्यादौ वह्निव्यापकोभूताभावप्रतियोगिजलत्वरूपाऽसाधारण्येऽव्याप्तिः,
"Aho Shrutgyanam