SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १३० अनुमानगादाधयों सामान्यनिरुक्तिप्रकरणम् * गादाधरीएवमपि प्रकृतहेतुनिष्ठसाध्यव्यापकीभूताभावप्रतियोगित्वघटितस्य मतभेदेनासाधारण्यविरोधरूपस्य विषयतायाः पक्षधम्मिकप्रकृतहेतुमत्ताज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतायामेवावच्छेदकत्वात् प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिन्नत्वनिवेशासम्भवात् । दर्शितातिप्रसङ्गवारणाय च निरुक्तविशिष्टद्वयाघटितत्वस्यैव निवेशनीयत्वात् । 3 चन्द्रकला निरुक्तजलत्वरूपाऽसाधारण्यविषयितायाः जलत्वरूपहेतुमत्पक्षनिश्चयात्मकज्ञानवैशिष्ट्यिावच्छिन्नायामेव प्रकृतानुमितिप्रतिबन्धकतायामवच्छेदकत्वात् यद्पावच्छिन्नविषयितापदेन तादृशजलत्वत्वावच्छिन्नविषयिताया धत्तु मशक्यत्वात् तत्र ज्ञानवैशिष्ट्यानवच्छिन्न प्रतिबन्धकतावच्छेदकत्वस्याभावादित्येवं रीत्या स्वरूपसम्बन्धरूपावच्छेदकत्ववादिनां पूर्वोक्तामाशंका निरस्यति एवमपीति । दर्शितप्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुमत्पक्षस्याऽलक्ष्यत्वेऽपीत्यर्थः । मतभेदेनेति । यन्मते निश्चितसाव्यवव्यावृत्तत्वविशिष्टो हेतुः साध्यवव्यावृत्तत्वविशिष्टो वा हेतुः असाधारण्यं वन्यादिमव्यावृत्तगगनादेरेव तथात्वादिति तन्मते साध्यव्यापकीभूताभावप्रतियोगिहेतुरेव विरोधः, यन्मते च साध्याऽसामानाधिकरण्य. विशिष्टहेतुरेव विरोधः तन्मते साध्यव्यापकीभूताभावप्रतियोगिहेतोरसाधारण्यमिति हृदयम् । वन्यादिव्यापकोभूताभावप्रतियोगित्वरूपा च हेतो वहन्याधभावव्यतिरेकव्याप्तिः तज्ज्ञानञ्च न वहन्याद्यनुमितौ नवा वहन्यादेःपरामर्श प्रतिबन्धकं भवितुमर्हति अपितु हेतुमत्पक्षशानसहितं वह्निव्यापकोभूताभावप्रतियोगि जलं जलवांश्च हद इत्याकारकज्ञानविशिष्ट ज्ञानमेव वह्यभावव्याप्यवत्त्वज्ञानमुद्रया वन्यनुमिति प्रतिबध्नाति, तथाच तादृशाऽसाधारण्यनिश्चयस्य ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकत्वाऽसम्भव एवेत्याह पक्षधमीति । दर्शितेति । वन्यभाववजलबद्वृत्तिजलवद्धदेऽतिप्रसंगवारणायेत्यर्थः । निवेशनीयत्वादिति । तथाचानतिरिक्तवृत्तित्वरूपावच्छेदकत्वघटितमेव लक्षणं करणीयमिति भावः। ननु निरुक्तविशिष्टद्वयाघटितयद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्व तद्रूपवत्त्वमित्युक्तावपि वह्निव्यापकीभूताभावप्रतियोगिजलरूपासाधारण्येऽव्याप्तिः, तादृशजलत्वावच्छिन्नविषयकनिश्चयत्वस्य जलवद्धदरूपहेतुमत्पक्षज्ञानाकालीनेऽपि तादृशजलनिश्चये वर्तमानतया तत्र प्रकृतानुमितिप्रतिबन्धकत्वविरहादतो वह्निव्यापकीभूताभावप्रतियोगिजलमात्रस्याऽलश्यत्वमभ्युपगम्य -हदादि "Aho Shrutgyanam"
SR No.009530
Book TitleSamanyanirukti Chandrakala kalavilas Tika
Original Sutra AuthorN/A
AuthorVamacharan Bhattacharya
PublisherSadhubela Ashram Bhadaini
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy