________________
चन्द्रकला - कलाविलासाख्यटीकाद्वयोपेतम्
* गादाधरी
न च पक्षवृत्तित्वविशेषितं प्रकृतहेतुनिष्ठ साध्यव्यापकीभूताभावप्रतियोगित्वमेवासाधारण्यादिरूपं वाच्यम्, पक्षवृत्तित्वाघटित विशिष्टविषयताया अप्रतिबन्धकज्ञानसाधारणतया प्रतिबन्धकतावच्छेदकत्वात् 'चासाधारख्यादेः पक्षवृत्तित्वविशिष्टप्रकृतहेतु-साध्यव्यापकाभावप्रतियोगित्वविशिष्टप्रकृत हे त्वादिरूपनिरुक्त विशिष्टद्वयघटिततया नि
तादृशस्य
१३१
* चन्द्रकला
रूपपक्षवृत्तित्वविशिष्टवह्निव्यापकीभूताभावप्रतियोगिजलस्यैवाऽसाधारण्यं स्वीकरणीयम् । तथाच विशिष्टद्वयाघटितत्वनिवेशोऽपि न सम्भवति, वह्निव्यापकीभूताभावजलप्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तितया
निश्चयविशिष्टजलवद्धदनिश्चयत्वस्य तादृशाभावप्रतियोगिजल विषयिताविशिष्टजलवद्द्भदविषयिताशून्यप्रतीतिविषयतावच्छेदकत्वस्य हदवृत्तित्वविशिष्टवह्निव्यापकीभूताभावप्रतियोगित्व विशिष्टजलत्वेऽसत्त्वादित्याह नचेति । द्वितोयवाच्यमितिपरेणान्वयः । पक्षवृत्तित्वेति । केवलवह्निव्यापकीभूताभावप्रतियोगिजलादिरूप हेतुविषयिताया इत्यर्थः । अप्रतिबन्ध केति । जलवद्धदरूप हेतुमपक्षज्ञानाऽकालीनज्ञाने वर्त्तमानतयेत्यर्थः । प्रतिबन्धकतेति । प्रकृतानुमितिप्रतिबन्धकतातिरिक्तवृत्तित्वादित्यर्थः । तादृशस्येत्यादि । हेतुनिष्ठपक्षवृत्तित्वविशिष्टसाध्यव्यापकीभूताभावप्रतियोगित्वरूपतादृशा साधारण्यादेरित्यर्थः ।
विशिष्टद्वयविषयिताशून्यत्वं निरुक्ताऽसाधारण्यज्ञाने न सम्भवतीत्याह पक्षेति । हेतुनिष्ठपक्षवृत्तित्वविशेषितसाध्यव्यापकीभूताभावप्रतियोगित्वस्याऽसाधारण्यत्वेऽपि न क्षतिः, विशिष्टद्वयविषयितायां निरुक्ताऽसाधारण्यघटक विषयिता भेद निवेशेनैव सामञ्जस्यात्, यत्राऽसाधारण्याऽप्रसिद्धिस्तत्रापि पूर्ववदेव गतिः ।
नचासाधारण्यघटकत्वनिवेशे तादृशस्य विरोधरूपतामते तादृशविरोधेऽव्याप्तिः, विरोधघटकत्वनिवेशे च तादृशाऽसाधारण्येऽव्याप्तिरिति वाच्यम्, साध्यव्यापकीभूताभावप्रतियोगित्व विशिष्ट हेतुविषयिताभिन्नत्वे सति हेतुमत्पक्षविषयिताभिन्ना या विशिष्टद्वयविषयिता तच्छून्यप्रतीतिविषयतावच्छेदकत्वस्यैव विशिष्टद्वयाऽघटितत्वपदेन विविक्षितत्वात् तस्य च लक्ष्यतावच्छेदकत्वेनाभिमतयद्रूपविशेषणत्वोपगमात् ।
तथापि समाधिसौकर्यादाह पक्षवृत्तित्वेति । तथा च पक्षचतित्वाऽविशेषितसाध्यव्यापकीभूताभावप्रतियोगित्वविशिष्टहेतुरेवाऽसाधारण्यं तस्य च विशिष्टद्वयघटितत्वशंकापि नास्तीति भावः ।
नन्वेवं तादृशाsसाधारण्यविषयकत्वस्य
प्रकृतानुमितिप्रतिबन्धकतातिरिक्त
"Aho Shrutgyanam"