________________
१३२ अनुमानगादाधर्या सामान्यनिरुक्तिप्रकरणम्
* गादाधरी . रुक्तविशिष्टतयाघटितत्वनिवेशोऽपि . न सम्भवतीति वाच्यम् , पक्षवृत्तित्वाघटितविशिष्टस्यैवासाधारण्यादिरूपताया "विरोधोपि फलतः प्रतिरोध एव तदन्यत्वेन वा विरोधि विशेषणीयमिति" पंक्तिव्याख्याना. वसरे सम्पादनीयत्वात् ।
* चन्द्रकला * त्तित्वात् कथं तत्र लक्षणसमन्वय इत्यत आह विरोधोऽपीति । संव्यभिचारग्रन्थे इत्यादि । सम्पादनीयत्वादिति । तथा च यथोक्तविशिष्टद्वयाऽघटितयद्पावच्छि. नविषयकनिश्चयत्वव्यापकः प्रकृतानुमित्यप्रतिबन्धकत्व-पक्षधर्मिकहेतुमत्ताज्ञानकालीनत्वोभयाभावस्तद्रूपवत्त्वमेव हेत्वाभासत्वं वक्तव्यम् , वह्नयादिव्यापकीभूताभाषप्रतियोगि जलं इत्याकारकासाधारण्यनिश्चयो यदि हृदादिरूपपक्षधर्मिकजलादिमत्तानिश्चयकालीनस्तदा तादृशाऽसाधारण्यनिश्चये प्रकृतानुमित्यप्रतिबन्धकत्वविरहात् तादृशोभयाभावे तादृशनिश्चयत्वव्यापकत्वमक्षतम् । ताह शाऽसाधारण्य निश्चयस्य व्हदादिधर्मिकजलादिमत्तानिश्चयाकालीनत्वे तु तादृशनिश्चये प्रकृतानुमित्यप्रतिबन्धकत्व. सत्त्वेऽपि पक्षधर्मिकहेतुमत्तानिश्चयकालीनत्वविरहात् यथोक्ताऽसाधारण्यनिश्चयत्वव्यापकतायास्तादृशोभयाभावेऽक्षततया पक्ष वृत्तित्वाऽविशेषितसाध्यव्यापकीभूताभावप्रतियोगिहेतुरूपासाधारण्ये लक्षणसमन्वयः ।। ___ एवं हृदो वह्निमानित्यादौ वहन्यभावविशिष्टह्रदादिरूपबाघनिश्चयस्य प्रकृतानुमितिप्रतिबन्धकतया तादृशबाधनिश्चये प्रकृतानुमित्यप्रतिबन्धकत्वविरहादेव तादृशोभयाभावस्य बाधनिश्चयत्वव्यापकतया तादृशबाधादावपि लक्षणसमन्वयः। एवमनयैव दिशा अन्यत्रापि लक्षणसमन्वयः स्वयमूहनीय इत्यलम् पल्लवितेन ।
* कलाविलासः * विरोधोऽपीति । पक्षः साध्यवान् हेतुमांश्चैत्याकारकग्रहाऽविरोधिप्रकृतानुमितिविरोधिरूपवत्त्वस्य सव्यभिचारलक्षणतया साध्याऽसामानाधिकरण्यविशिष्टहेतुरूपविरोधेऽतिव्याप्तिः, तस्य तादृशत्वादत प्राह विरोधोऽपीति । तथाच पक्षवृत्तित्वे सति साध्यव्यापकीभूताभावप्रतियोगित्वमेव विरोधः सच फलतः अनुमितिरूपफलानुपादप्रयोजकत्वात् प्रतिरोध एव सत्प्रतिपक्षतुल्य एवेति तस्य साध्यग्रहविरोधिरवात् सत्यन्ताभावेन न सव्यभिचारलक्षणस्यातिव्याप्तिः।।
यदि मूलकारमते हेतुनिष्ठसाध्याऽसामानाधिकरण्यमेव विरोधस्तदा तत्रातिव्याप्तिर्वारा स्यादत प्राह तदन्यत्वेनेति । विरोधान्यत्वेनानुमितिविरोधि विशेपणीयमिति तु सव्यभिचारस्य निरुक्तम्रन्थतात्पर्य पर्यवसितम् ।
"Aho Shrutgyanam"