________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम् १३३
* दीधितिः - विशेषणीयञ्च तादृशविशिष्टान्तराघटितत्वेन ।
* गादाधरी* नन्वनतिरिक्तवृत्तित्वरूपावच्छेदकत्वनिवेशेऽपि व्यभिचारादिघटितपदार्थान्तरेऽतिव्याप्तिस्तद्विषयकत्वस्यापि
प्रतिबन्धकतानतिरिक्तवृत्तित्वादत आह विशेषणीयञ्चेति । तादृशलक्षणमितिशेषः ।
चन्द्रकला विशेषणीयञ्चेत्यादिदीधितिमवतारयति नन्वनतिरिक्तति । प्रमेयत्वविशिष्टव्यभिचारनिश्चयस्य व्याप्तिग्रहप्रतिबन्धकत्वेऽपि तादृशप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतायाः व्यभिचारत्वावच्छिन्नविषयितायामेव स्वीकरणीयतया मेयत्वविशिष्टव्यभिचारत्वावच्छिन्नविषयितायाः तयात्वे मानाभावात् स्वरूपसम्बन्धरूपप्रतिबन्धकतावच्छेदकत्वविवक्षणे मेयत्वविशिष्टव्यभिचारे नातिव्याप्तिः सम्भवति, किन्त्वनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षाया एव पूर्वोक्तयुक्तयाऽवश्यकतया ताहशावच्छेदकत्वनिवेशपक्षे एव तत्रातिव्याप्ति सूचयतीतिभावः । व्यभिचारेति । धमवान् वढरित्यादौ प्रमेयत्वविशिष्टो यो धूमाभावववृत्तित्वविशिष्टो वह्निस्तत्र प्रमेयस्वविशिष्टव्यभिचारेऽतिव्याप्तिरित्यर्थः । तद्विषयकत्वस्य = तादृशव्यभिचारविषय. कत्वस्य । प्रतिबन्धकतेति । तादृशव्यभिचारविषयकत्वरूपस्वव्यापकयथोक्तानुमिति
* कलाविलासः * विशिष्टद्वयाऽघटितत्वसहितलक्षणानुगमस्तु धर्मविशिष्टधर्मवरचं हेत्वाभासत्वम् । वैशिष्टयं स्वतादात्म्य-स्वविशिष्टनिश्चयत्वव्यापकप्रकृतानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावत्वोमयसम्बन्धेन । निश्चये स्ववैशिष्टयं स्वावच्छिन्न विषयितावत्वसम्बन्धेन । प्रतिबन्धकतावत्वञ्च धर्मे स्ववृत्त्यभावीयप्रतियोगितानिरूपितपरम्परया निश्चयनिष्ठावच्छेदकतानिरूपिता या सामानाधिकरण्यसम्बन्धावच्छिना निश्चयनिष्ठावच्छेदकता तनिरूपितविषयित्वनिष्ठावरलेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावत्प्रतीतिविषयतावच्छेदकत्वसम्बन्धेन । तादृशावच्छेदकतावत्वञ्च प्रतीतौ स्वनिरूपिता या विषयित्वनिष्ठा स्वाश्रयसमानाधिकरणज्ञानवृत्तित्वसम्बधावरिछन्नावच्छेदकता सन्निरूपिता अथ धावच्छिन्नत्वसम्बन्धावच्छिन्ना किञ्चिद्धर्मनिष्ठावच्छेदकतानिरूपिता विषयितात्वावच्छिन्ना प्रतियोगिता तनिरूपकाभावत्वसम्बन्धेनेति ध्येयमिति दिक् । बिशिष्टान्तराऽघटितत्वशरीरघटकस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकरूपे
"Aho Shrutgyanam"