________________
अनुमानगादाधयां सामान्यनिरुक्तिप्रकरणम्
गादाधरी तादृशविशिष्ठति। अनुमितिप्रतिबन्धकतायां यद्रूपावच्छिन्नविषयकत्वमवच्छेदकं तद्पावच्छिन्नेत्यर्थः । व्यभिचारत्वाद्यवच्छिन्नस्य व्यभिचारत्वादिरूपताशरूपावच्छिन्नघटितत्वादसम्भव इत्यतोऽन्तरेति ! स्वावच्छिन्नाविषयकप्रतीतिविषयता
चन्द्रकला प्रतिबन्धकताकत्वादित्यर्थः । तादृशेति । यद्रूपावच्छिन्नविषयकत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वमित्यादि लक्षणघटकीभूतं यद्पमित्यर्थः । अनुमितिप्रतिबन्धकतायामित्यादि। यद्रूपावच्छिन्नविषयकत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तद्रूपावच्छिन्नमेव तादृशविशिष्टान्तरपदेन विवक्षणीयमित्यर्थः ।
अन्तरपदप्रयोजनमाह ब्यभिचारत्वेति । तथाचान्तरपदानुपादानेऽसम्भवःस्याद् व्यभिचारादेरपि ताहशविशिष्ट पदोपात्तव्यभिचारादिघटितत्वात् स्वस्य स्वघटितत्वस्य सर्ववादिसिद्धत्वादित्याशयः ।
ननु अन्तरपदं यदि भिन्नार्थकं तदा प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्तिः, शुद्धव्यभिचारादेः प्रमेयत्वविशिष्टव्यभिचाररूपविशिष्टव्यभिचारात्मकतया तभेदस्य तत्र विरहात् प्रमेयत्वविशिष्टव्याभिचारभेदस्य बाधादौ सत्त्वेऽपि तदघटितत्वस्य
* कलाविलासः * प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकत्वनिवेशं विहाय प्रकृतानुमितिप्रतिबन्धकतानिरूपित स्वरूपसम्बन्धरूपावच्छेदकतावद्विषयितानिरूपकतावच्छेदकत्वविवक्षणे निरवच्छिन्नस्वरूपसम्बन्धेन वयभावविशिष्टहदस्य हृदो वह्निमानित्यादौ बाधरवमभ्युपगच्छता मते तादृशबाधेऽव्याप्तिः ।
तादृशबाधत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् शुन्द्धस्वरूपसम्बन्धेन वह्नयभावविशिष्टहदत्त्वं तस्य प्रकृतानुमितिप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतावद्विपयितानिरूपकतावच्छेदकतया तदवच्छिन्नाविपयकप्रतीतिविषयतावच्छेदकत्वस्य निरवच्छिन्नस्वरूपसम्बन्धेन वह्वयभावविशिष्टहदत्वरूपनिरुक्तबाधत्वे विरहात् ।। ___ नच स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकयद्पावच्छिन्न विषयतासामान्यं प्रकृतानुमितिप्रतिवन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतावत् तद्रूपावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वरूपमेव स्वस्मिन् विशिष्टान्तराघटितत्वं लाघवाद्विवक्षणीयमिति वाच्यम्, तथा सति जलव्यापकवह्नयभावसमानाधि
"Aho Shrutgyanam"