________________
१३५
चन्द्रकला-कलाविलासाख्यटीकाद्धयोपेतम्
* गादाधरी * वच्छेदकावच्छिन्नार्थकम्, अतः शुद्धव्यभिचारादेर्मेयत्वविशिष्टव्यभिचाराधभिन्नत्वेपि न क्षतिः । तदघटितत्त्वं तदविषयकप्रतीतिविषयत्वम्, एवञ्चानुमितिप्रतिबन्धकतायां यादृशरूपावच्छिन्नविषयकत्वमवच्छेदकं तादृशं यत्स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत् तदवच्छिन्नत्वं समुदितार्थः । यद्पावच्छिन्ने लक्षणं सङ्गमनीयं तदेव स्वपदार्थः ।
* चन्द्रकला * तत्राऽनपायादित्यत आह स्वावच्छिन्नति । लश्यतावच्छेदकत्वेनाभिमतधर्मावच्छि. नाऽविषयकप्रतीतिविषयतावच्छेदकधर्मावच्छिन्नार्थकमित्यर्थः। अतः = एतादृशरीत्या विशिष्टान्तरशब्दार्थनिर्वचनतः । न क्षतिरिति । न मेयत्व विष्टिव्यभिचारादावतिव्याप्तिरित्यर्थः । प्रमेयत्वविशिष्टव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य व्यभिचारत्वे सत्त्वाद् व्यभिचारत्वस्यैव विशिष्टान्तरत्वसम्भवादिति भावः ।
समुदितविशिष्टान्तराऽघटितत्वं निर्वक्ति एवञ्चेति । तथाच स्वावच्छिन्नाऽविष. यकप्रतीतिविषयतावच्छेदकम् अथच प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकं यद्रूपावच्छिन्नविषयकत्वव्यापकम् प्रकृतानुमितिप्रतिबन्धकत्वं तादृशं वा यद्रपं तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत् स्वं तादृशस्वात्मकयद्रूपावच्छिन्नविषयकनिश्चयत्वव्यापकं प्रकृतानुमितिप्रतिबन्धकत्वं तादृशस्वात्मकतद्रूपवत्वमिति तु विशिष्टान्तराऽघटितत्वविशेषणघटितलक्षणार्थः पर्यवसितः । घटत्वाधवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकप्रकृतानुमितिप्रतिबन्धकतावच्छेदकबाधत्वाद्यवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकघटस्वरूपस्ववत्त्वस्य घटादौ सत्त्वात् तत्राऽतिव्याप्तिः स्यादतः स्वात्मकयद्रूपेत्यादिना विशेष्यदलस्य प्रवेशः। तथाच घटत्वाद्यवच्छिन्नविषयकनिश्चयत्वव्यापकताया अनुमितिप्रतिबन्धकतायां विरहान्न घटादावतिव्याप्तिरिति तु परमार्थः। . ..
* कलाविलासः * करणजलवद्धदेऽव्याप्तयापत्तः, जलव्यापकवलयभावसमानाधिकरणजलवद्धदत्वावच्छिन्नाविषयकप्रतोतिविषयतावच्छेदकजलवद्धदत्वावच्छिन्नविषयतासामान्यस्यैव प्रकृतानुमितिप्रतिबन्धकतावरछेदकतया तादृशजलवद्ध्दत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशसत्प्रतिपक्षतावच्छेदकेऽसत्वादिति ध्येयम् ।।
स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकरूपे प्रकृतानुमित्यवृत्तिविषयितानिरूपकतावच्छेदकत्वनिवेशे पर्वतो वह्नयभावग्याप्यवान् पर्वतीयवलयभाषादित्यत्र
"Aho Shrutgyanam"