________________
१३६ अनुमानगादाधयाँ सामान्यनिरुक्तिप्रकरणम्
गादाधरी . भवति हि व्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकीभूता ये वाधवादयस्तदवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं व्यभिचारत्वादीति तदवच्छिन्ने लक्षणसङ्गतिः।।
® चन्द्रकला ® यद्पावच्छिन्ने इत्यादिना स्वपदार्थ निरुच्य लक्ष्ये लक्षणसमन्वयं प्रदर्शयतिभवति होत्यादि । अयोगोलकं धूमवद् वढेरित्यादौ धूमाभावववृत्तित्वविशिष्टवह्नित्वरूपव्यभिचारत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकश्च यद् धूमाभाववदयोगोलकत्वरूपं बाधत्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं यत् स्वं ताशव्यभिचारत्वं तदवच्छिन्नविषयकनिश्चयत्वव्यापकतायाः अयोगोलकं धूमवद् धूमव्याप्यवह्निमच्चत्याकारकसमूहालम्बनरूपप्रकृतानुमितिप्रतिबन्धकतायामक्षतत्वात् स्वपदेन धूमाभाववद्वृत्तित्वविशिष्ट वह्नित्वरूपव्यभिचारत्वस्योपादानसम्भवात् ।
एवं हृदो वह्निमान् धूमादित्यादौ वह्नयभावविशिष्टहदत्वादिरूपबाधत्याद्यवच्छिनाऽविषयकप्रतीतिविषयतावच्छेदकम् प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकञ्च यद् धूमाभावविशिष्टह्रदत्वादिरूपं स्वरूपासिद्धित्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकतादृशबाधत्वाचवच्छिन्नविषयकनिश्चयत्व - व्यापकत्वस्यापि प्रकृतानुमितिप्रतिबन्धकतायां सत्त्वात् वह्नयभाववद्ध्दत्वादिरूपबाधत्वादेरपि स्वपदेन धत्तं शक्यतया तादृशबाधादी लक्षणसमन्वयः ।
यत्र च पर्वतो धूमवान् वह्नरित्यादी व्यभिचारमात्रस्यैव दोषता तत्र विशिष्टान्तरतावच्छेदकरूपाप्रसिद्धिरिति तु नाशंकनीयम्, तत्रापि वह्निवृत्तित्वविशिष्टधूमाभावववृत्तित्वत्वादेविपरीतव्यभिचारत्वादेरेव विशिष्टान्तरतावच्छेदकत्वसम्भवादित्यनयेव रीत्याऽन्यत्रापि लक्षणसमन्वयो बोध्यः ।
® कलाविलासः पर्वतीयवहिमपर्वतरूपस्वरूपासिद्धावव्याप्तिः, स्वरूपासिद्धित्वरूपस्वावच्छिन्नाऽविपयकप्रतीतिविषयतावच्छेदकस्य वह्निमरपर्वतत्वस्य प्रकृतानुमित्यवृत्ति विषयितानिरूपकतावच्छेदकतया तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य तादृशस्वरूपासिद्धित्वे विरहात् ।
नच तथापि स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकरूपे प्रकृतानुमित्यव्यवहितमाक्षणवृत्तिज्ञानावृत्तिविषयितानिरूपकतावच्छेदकत्वविवक्षणान्न निरुक्ताव्याप्तिरिति वाच्यम्, तथा सति गौरवात् । यादशस्थलविशेषे हदो वह्निमानित्यनुमितेरव्यवहितपूर्ण वह्नयभाव इत्याकारकं ज्ञानं न जायते तादृशस्थले
"Aho Shrutgyanam"