________________
चन्द्रकला-कलाविलासाख्यटीकाद्वयोपेतम्
गादाधरी मेयत्वविशिष्टव्यभिचारत्वादेः स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकव्यभिचारत्वाद्यवच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकत्वाभावान तदवच्छिन्न ऽतिव्याप्तिः ।। मेयत्वविशिष्टव्यभिचारादेरपि मेयत्वादिना व्यभिचारत्वाद्यवच्छिन्ना
* चन्द्रकला * प्रमेयत्वविशिष्टव्यभिचारेऽतिव्याप्ति वारयति मेयत्वेति । तथाच मेयत्वविशिष्टव्यभिचारत्वं नैतादृशं स्वं प्रमेयत्वविशिष्टव्यभिचारत्वरूपस्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकञ्च यद् व्यभिचारत्वं तदवच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वस्य प्रमेयत्वविशिष्टव्यभिचारत्वे विरहान्न प्रमेयत्वविशिष्टव्यभिचारत्वाद्यवच्छिन्ने तादृशव्यभिचारेऽतिव्याप्तिरिति समुदितार्थः पर्यवसितः ।
ननु लक्ष्यतावच्छेदकल्वेनाभिमते स्वस्मिन् स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकतादृशधर्मावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकत्वमनिवेश्य लाघवात् तादृशधर्मावच्छिन्नाऽविषयकप्रतीतिविषयत्वमेव स्वाश्रये निवेशनीयमित्यत आह मेयत्वविशिष्टेति। मेयत्वादिना = मेयत्वादिधर्मेण । आदिना वाच्यत्वादि. परिग्रहः। व्यभिचारत्वेति । व्यभिचारत्वाद्यवच्छिन्नाऽविषयिणी या प्रमेयमित्याकारिका
* कलाविलासः ॐ 'वह्नयभावविशिष्ट हदेऽव्याप्तेश्व, वह्नयभावत्वस्यापि . तादृशविशिष्टान्तरतावच्छेदकत्त्वसम्भवादित्यस्भद्गुरुचरणाः ।
ननु लचयतावच्छेदके विशिष्टान्तरतावच्छेदकरूपावच्छिन्नाऽविषयकमतीतिविषयतावच्छेदकत्वनिवेशापेक्षया लायवात् विशिष्टान्तरतावच्छेदकरूपानवच्छिन्नभकारतावच्छेदकत्वनिवेशनमेव समुचितमिति चेन्न, यादृशस्थल विशेषे घट इत्याकारकज्ञानं नियमतो बाधविषयकमेब भवति तत्र घटेऽतिव्याप्तयापत्तेः, घटविषयकत्वस्य प्रकृतानुमितिमतिबन्धकतानतिरिक्तवृत्तित्वाद् विशिष्टान्तरतावच्छेदकबाधत्वानवच्छिन्नप्रकारतावच्छेदकत्वाच्च ।
मन्मते तु घटत्वे बाधत्वावच्छिन्नाऽविषयकमतीतिविषयतावच्छेदकत्वावि रहानातिव्याप्तिरितिध्येयम् । ___ स्वावच्छिन्नाऽविषयकप्रतीतीति । अत्र प्रतीतिपदं निरर्थकमिति तु नाशं. क्यम्, ज्ञानेच्छादिविषयताया अनुगतत्वाऽसम्भवे स्वावच्छिन्नविषयकस्वाभावकूटपत्मतीतिविषयतावच्छेदकरवनिवेशे महागौरगं स्यादिति तनिवेशस्यावश्यकरवात् ।
"Aho Shrutgyanam"